पद-पाठ - अ॒ग्निम्। ईळे । पु॒रःऽहि॑तम् । य॒ज्ञस्य॑ दे॒वम्। ऋ॒त्विज॑म् । होता॑रम्। र॒त्न॒ऽधात॑मम्॥१॥सायण-भाष्य-अग्निनामकं देवम् ईळे स्तौमि । 'ईड् स्तुतौं' इति धातुः । डकारस्य ळकारो बह्वृचाध्येतृसंप्रदायप्राप्तः । तथा च पठ्यते- 'अज्मध्यस्थडकारस्य ळकारं बह्वचा जगुः। अज्मव्यस्थढकारस्य कहकारं वै यथाक्रमम्' इति । मन्त्रस्य होत्रा प्रयोज्यत्वादहं होता स्तौमीति लभ्यते । कीदृशमग्निम् ? यजस्य पुरोहितम्। यथा राज्ञः पुरोहितस्तदभीष्टं संपादयति, तथाग्निरपि यज्ञस्यापेक्षितं होमं संपादयति । यद्वा, यज्ञस्य संबन्धिनि पूर्वभागे आहवनीयरूपेणावस्थितम्। पुनः कीदृशम् ? देवं दानादिगुणयुक्तम् । पुनः कीदृशम? होतारम् ऋत्विजम्। देवानां यज्ञेषु होतृनामक ऋत्विगग्निरेव । तथा च श्रूयते-'अग्निर्वै देवानां होता' (ऐ०ब्रा० २.१४) इति । पुनरपि कीदृशम् ? रत्नधातमम् यागफलरूपाणां रत्नानामतिशयेन धारयितारं पोषयितारं वा । ईळे ।अन्वय- यज्ञस्य पुरोहितम् देवम् होतारम् ऋत्विजम् रत्नधातमम् अग्निम् ईऴे ।शब्दार्थ - यज्ञस्य पुरोहितम= यज्ञ के पुरोहित; जिस प्रकार राजा का पुरोहित उसके अभीष्ट को सम्पादित करता है, उसी प्रकार अग्नि भी यज्ञ के अपेक्षित होम को सम्पादित करता है। अतः अग्नि को यज्ञ का पुरोहित कहा गया है। देवम् प्रकाशयुक्त या दान आदि गुणों से युक्त होतारम् ऋत्विजम् = देवताओं को यज्ञ में बुलाने वाला ऋत्विक होतृ (होता) नामक ऋत्विक्। यज्ञ कराने वाले को ऋत्विक् कहते हैं। सामान्यतः प्रत्येक यज्ञ में चार ऋत्विक् होते हैं-होतृ (होता), उद्गातृ (उद्गाता), ब्रह्मन् (ब्रह्मा) और अध्वर्यु। देवताओं के यज्ञ में अग्नि ही होत नामक ऋत्विक् बनता है। अतः अग्नि को होतृ नामक ऋत्विक् कहा गया है। रत्नधातमम् = रत्नों का सर्वाधिक दाता या धारणकर्ता; रत्नदाताओं या रत्न धारण करने वालों में श्रेष्ठ; याग के फल के रूप में प्राप्त होने वाले उत्तम पदार्थों को सर्वाधिक मात्रा में धारण करने वाला या देने वाला। अग्निम् = अग्नि (देवता) को । ईळे = पूजा करता हूँ, स्तुति करता हूँ, वन्दना करता हूँ।अनुवाद- यज्ञ के पुरोहित, प्रकाशयुक्त (या दान आदि गुणों से युक्त, देवताओं को यज्ञ में बुलाने वाले ऋत्विक् तथा रत्नों के सर्वाधिक दाता अग्नि (देवता) को मैं पूजता हूँ ( अग्नि की स्तुति करता हूँ) ।व्याकरण-यज्ञस्य = √यज्ञ् + नङ, षष्ठी एकवचन। देवम् दिव् + अच, द्वि०एक०। देवो दानाद् वा, दीपनाद् वा, द्योतनात् वा, घुस्थानो भवतीति वा' (निरुक्त ७।१५) । होतारम् = हू + तृन् + द्वि० एक० । रत्नधातमम् = रत्नानि दधाति इति रत्नधाः, रत्नधा + क्विप्, रत्नधा + तमप्-रत्नधातमः (अतिशायी रत्नधा इति रत्नधातमः, द्वि० एक० । ईळे = ईडे (लौकिक संस्कृत में)। ऋग्वेद में दो स्वरों के मध्य में स्थित डकार को ळकार पढ़ने का नियम है-'अज्मध्यस्थडकारस्य ळकार बह्वचा जगुः'। ईडे (= ई ड् ए) दो स्वरों के मध्य में स्थित होने से 'इ' को 'ळ' हो गया है। ईड् (स्तुति करना) + लट् लकार उत्तम पुरुष, एक वचन । अ॒ग्निः पूर्वेभि॒ऋषि॑भि॒रीड्यो॒ नूत॑नैरु॒त । स दे॒वाँ एह व॑क्षति । । २ ।। पदपाठ- अ॒ग्निः। पूर्वे'भिः। ऋर्षिभिः। इड्य॑ः। नूत॑नैः । उ॒त । सः । दे॒वान् । आ। इ॒ह। वक्षत।।२।।सायण-भाष्य-अयम् अग्निः पूर्वेभिः पुरातनैर्भृग्वङ्गिरःप्रभृतिभिः ऋषिभिः ईड्यः स्तुत्यः, नूतनैः उत इदानींतनैरस्माभिरपि स्तुत्यः । सः अग्निः स्तुतः सन् इह यज्ञे देवान् हविर्भुजः आ वक्ष्यति। वह प्रापणे' इति धातुः । आवहतु इत्यर्थः ।अन्वय-अग्निः पूर्वेभिः उत नूतनैः ऋषिभिः ईड्यः सः देवान् इह आ वक्षति ।शब्दार्थ- अग्निः = अग्नि (देवता) । पूर्वेभिः = प्राचीन। उत = और। नूतनैः = नवीन, अर्वाचीन ऋषिभिः = ऋषियों के द्वारा। ईड्यः = स्तुत्य, स्तुति करने योग्य, पूजनीय। सः = वह (अग्नि देवता)। देवान् = देवताओं को। इह = यहाँ (= इस यज्ञ में) । आ वक्षति = ले आवे।अनुवाद- अग्नि (देवता) प्राचीन और नवीन ऋषियों के द्वारा स्तुत्य (पूजनीय, स्तुति किये जाने योग्य, स्तुति करने योग्य) है। वह देवताओं को यहाँ (= इस यज्ञ में) लें आवे।व्याकरण- पूर्वेभिः = यह वैदिक रूप है। वेद में कभी-कभी 'बहुलं छन्दसि' सूत्र से भिस् (भिः) को ऐस् (ऐ:) आदेश का अभाव हो जाता है। ईड्य: = ईड् (स्तुति करना) + ण्यत्। देवाँ-पद के अन्त में स्थित न् के पूर्व में आ और बाद में कोई भी स्वर हो तो न् का लोप हो जाता है तथा पूर्ववर्ती स्वर का अनुनासिक (आँ) हो जाता है। इस वैदिक विशेषता को सूत्रों की सहायता से इस प्रकार बतलाया जा सकता है-द्वितीया बहुवचन का रूप 'देवान्' है (देवान् आ वेद में न् को 'दीर्घादटि'- (पा० ८।३।९) सूत्र से आ अनुनासिक (आँ) हो गया। वक्षति = वह् (ले जाना) + (लोट् के अर्थ में) ऌट्; स्य प्रत्यय के यकार (य्) का छान्दस् लोप हुआ जिससे वक्ष्यति का वक्षति हो गया। यह लेट् लकार का भी रूप हो सकता है। अ॒ग्निना॑ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑ वी॒रव॑त्त॒मम् ।।३।।पदपाठ- अ॒ग्निना॑। र॒यिम्। अ॒श्न॒व॒त्। पोष॑म् ए॒व । दि॒वेदि॑वे । य॒शस॑म् । वी॒रव॑त्ऽतमम्।।३।।सायण - भाष्य - योऽयं होत्रा स्तुत्योऽग्निस्तेन अग्निना निमित्तभूतेन यज्ञमान रयिं धनम् अश्नवत् प्राप्नोति। कीदृशं रयिम् । दिवेदिवे पोषम् एव प्रतिदिनं पुष्यमाणतया वर्धमानमेव, न तु कदाचिदपि क्षीयमाणम्। यशसं दानादिना यशोयुक्तं वीरवत्तमम् अतिशयेन पुत्रभृत्यादिवीरपुरुषोपेतम् । सति हि धने पुरुषा: संपद्यन्ते । अनुवाद - अग्निना दिवेदिवे पोषम् एव सशसं वीरवत्तमं रयिम् अश्नवत् । शब्दार्थ - अग्निना = अग्नि के द्वारा, अग्नि के माध्यम से । दिवेदिवे प्रतिदिन। पोषम् = बढ़ने वाले, वृद्धि को प्राप्त होने वाले । एव = ही । यशसम् = यश से युक्त, कीर्तिदायक। वीरवत्तमम् = श्रेष्ठ वीर पुरुषों से युक्त, पुत्रादि से अतिशय रूप से युक्त। रयिम् = धन। अश्नवत् = प्राप्त करें।अन्वय- ( अग्नि की पूजा करने वाला मनुष्य) अग्नि के माध्यम से प्रतिदिन वृद्धि (पुष्टि) को ही प्राप्त होने वाले यश से युक्त (कीर्तिदायक) और श्रेष्ठ वीर पुरुषों से युक्त धन को प्राप्त करे (अर्थात् अग्नि के द्वारा यजमान ऐसा धन प्राप्त करे, जो प्रतिदिन बढ़ने ही वाला हो और जो यश तथा श्रेष्ठ वीर पुरुषों से समन्वित हो) ।व्याकरण-दिवेदिवे = दिव शब्द का सप्तमी का एकवचन । नित्यवीप्सयोः सूत्र से द्वित्व। पोषम् = पुष् + घञ्। यशसम् = यशः अस्य अस्ति इति, यशस् + अच्। वीरवत्तमम् = वीर + मतुप् + तमप्। अश्नवत् = अश् (प्राप्त करना या व्याप्त करना) + लेट्, प्र०पु० एक० । अग्ने॑ यं य॒ज्ञम॑ध्व॒रं वि॒श्वत॑ः परि॒भूरसि॑ । स इद् देवेषु गच्छति । । ४ । ।पदपाठ-अग्ने॑। यम्। य॒ज्ञम् । अ॒ध्व॒रम् । वि॒श्वत॑ः । परि॒ऽभूः । असि॑ । सः। इत्। दे॒वेषु॑ । ग॒च्छ॒ति॒।।४।।सायण-भाष्य- हे अग्ने त्वं यं यज्ञं विश्वतः सर्वासु दिक्षु परिभूः परितः प्राप्तवान् असि सः इत् स एव यज्ञो देवेषु तृप्तिं प्रणेतुं स्वर्गे गच्छति। प्राच्यादिचतुर्दिगन्तेषु आहवनीयमार्जालीयगार्हपत्याग्नीध्रीयस्थानेषु अग्निरस्ति । परिशब्देन होत्रीयादिधिष्ण्य- व्याप्तिर्विवक्षिता । कीदृशं यज्ञम् ? अध्वरं हिंसारहितम् । न ह्यग्निना सर्वतः पालितं यज्ञं राक्षसादयो हिंसिंतु प्रभवन्ति ।अन्वय-अग्ने ! यम् अध्वरं यज्ञं विश्वतः परिभूः असि सः इत् देवेषु गच्छति ।शब्दार्थ-अग्ने = हे अग्नि ! यम् = जिस। अध्वरम् = हिंसारहित। यज्ञम् = यज्ञ को । विश्वतः = चारों ओर से। परिभूः असि = व्याप्त करके स्थित होते हो। सः = वह । इत् = ही । देवेषु = देवताओं में। गच्छति = जाता है, पहुँचता है।अनुवाद - हे अग्नि ! (तुम) जिस हिंसारहित यज्ञ को चारों ओर से व्याप्त करके स्थित होते हो वह (यज्ञ) ही देवताओं में जाता है ( देवताओं को प्राप्त होता है)। व्याकरण- विश्वतः = विश्व + तसिल् । परिभूः = परि + भू + क्विप्। = अस् + लट्, म०पु०, एक० । गच्छति = गम् + लट्, प्र०पु०, एक० ।अ॒ग्निर्होता॑ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः । दे॒वो दे॒वेभि॒रागमत्।।५।।पदपाठ-अ॒ग्निः। होता॑। क॒विक्र॑तुः । स॒त्यः। चि॒त्रश्र॑वऽतमः। दे॒वः । दे॒वेभि॑ः । आ । गमत् ॥५॥सायण-भाष्य-अयम् अग्निः देवः अन्यैर्देवैर्हविर्भोजिभिः सह आ गमत् अस्मिन् यज्ञे समागच्छतु। कीदृशोऽग्निः । होता होमनिष्पादकः। कविक्रतुः। कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा। सत्यः अनृतरहितः फलमवश्यं प्रयच्छतीत्यर्थः। चित्रश्रवस्तमः। श्रूयते इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः ।अन्वय- होता कविक्रतुः सत्यः चित्रश्रवस्तमः अग्निः देवः देवेभिः आगमत्।पदपाठ-अ॒ग्निः। होता॑। क॒विक्र॑तुः । स॒त्यः। चि॒त्रश्र॑वऽतमः। दे॒वः । दे॒वेभि॑ः । आ । गमत् ॥५॥सायण-भाष्य-अयम् अग्निः देवः अन्यैर्देवैर्हविर्भोजिभिः सह आ गमत् अस्मिन् यज्ञे समागच्छतु। कीदृशोऽग्निः । होता होमनिष्पादकः। कविक्रतुः। कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा। सत्यः अनृतरहितः फलमवश्यं प्रयच्छतीत्यर्थः। चित्रश्रवस्तमः। श्रूयते इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः ।अन्वय- होता कविक्रतुः सत्यः चित्रश्रवस्तमः अग्निः देवः देवेभिः आगमत्।पदपाठ- अ॒ग्निः। होता॑। क॒विक्र॑तुः । स॒त्यः। चि॒त्रश्र॑वऽतमः। दे॒वः । दे॒वेभि॑ः । आ । गमत् ॥५॥सायण-भाष्य-अयम् अग्निः देवः अन्यैर्देवैर्हविर्भोजिभिः सह आ गमत् अस्मिन् यज्ञे समागच्छतु। कीदृशोऽग्निः । होता होमनिष्पादकः। कविक्रतुः। कविशब्दोऽत्र क्रान्तवचनो न तु मेधाविनाम । क्रतुः प्रज्ञानस्य कर्मणो वा नाम । ततः क्रान्तप्रज्ञः क्रान्तकर्मा वा। सत्यः अनृतरहितः फलमवश्यं प्रयच्छतीत्यर्थः। चित्रश्रवस्तमः। श्रूयते इति श्रवः कीर्तिः । अतिशयेन विविधकीर्तियुक्तः ।अन्वय- होता कविक्रतुः सत्यः चित्रश्रवस्तमः अग्निः देवः देवेभिः आगमत्।शब्दार्थ- होता = ( देवताओं को) बुलानेवाला, (देवताओं का) आह्वान करने वाला। कविक्रतुः = कवि की प्रज्ञा (क्रतु) वाला, उत्कृष्ट (या प्रशंसनीय) वृद्धि (या कर्म) वाला, क्रान्तप्रज्ञ अर्थात् भूत, भविष्य एवं वर्तमान को जानने वाला। सत्यः = सत्यशील । चित्रश्रवस्तमः = अतिशय रूप में (अर्थात् अत्यधिक मात्रा में) विविध कीर्तियों वाला। अग्निः = अग्नि। देवः = देवता। देवेभिः देवताओं के साथ। आगमत् = आवे। अनुवाद- (यज्ञ में देवताओं को) बुलाने वाला, उत्कृष्ट बुद्धि (या कर्म) वाला, सत्यशील (अर्थात् निश्चय ही याग फलों को देने वाला) तथा अतिशय रूप में विविध कीर्तियों (यश) वाला अग्नि देवता (अन्य) देवताओं के साथ (इस यज्ञ में) आये। व्याकरण- कविक्रतुः = कविः क्रतुः यस्य सः -बहुव्रीहि । चित्रश्रवस्तमः चित्र श्रवः (यशः) यस्य सः चित्रश्रवाः, अतिशायी चित्रश्रवाः इति चित्रश्रवस्तमः (बहुव्रीहि), चित्रश्रवस् + तमप् । देवेभिः = देवैः (लौकिक संस्कृत), तृ० बहु०; यह वैदिक रूप है। वेद में कभी-कभी 'बहुलं छन्दसि' सूत्र से भिस् (भिः) को ऐस् (ऐ:) आदेश का अभाव हो जाता है। गमत् = गम् + लेट्, प्र०पु० एक०। सायण ने इसे लोट् मानकर कहा है कि छत्व का अभाव तथा उकार का लोप छान्दस् है । इस प्रकार गमत् = गच्छतु। यद॒ङ्गदा॒शुषे॒ त्वमग्ने॑ भ॒द्रं क॑रिष्यसि॑ । तवेत्तत्स॒त्यम॑ङ्गरः।।६।।पदपाठ-यत्। अ॒ङ्ग। दा॒शुषे॑ त्वम् अग्ने॑ भ॒द्रम् करि॒ष्यसि॑ । तव॑ । इत्। तत्। स॒त्यम् । अङ्गिरः ।। ६सायण-भाष्य- अङ्ग इत्यभिमुखीकरणार्थों निपातः । अङ्ग अग्ने ! हे अग्ने त्वं दाशुषे हविर्दत्तवते यजमानाय तत्प्रीत्यर्थ यत् भद्रं वित्तगृह प्रजापशुरूपं कल्याणं करिष्यसि तत् भद्रं तव इत् तवैव । सुखहेतुरिति शेषः । हे अङ्गिरः ! अग्ने एतच्च सत्यं, न त्वत्र विसंवादोऽस्ति। यजमानस्य वित्तादिसंपत्तौ सत्यामुत्तरक्रत्वनुष्ठानेनाग्नेरेव सुखं भवति ।अन्वय-अङ्ग अग्ने ! त्वं दाशुषे यत् भद्रं, अङ्गिरः ! तत् तब इत् सत्यम् ।शब्दार्थ - अङ्ग अग्ने = हे अग्नि । त्वम् = तुम। दाशुषे = हवि प्रदान करने वाले (यजमान) के लिए, दान करने वाले (यजमान) के लिए । यत् = जो। भद्रम् कल्याणकारी कर्म। अङ्गिरः = हे अङ्गारमय अग्नि, हे अङ्गिरा मुनि को जन्म देने वाले अग्नि। तत् = वह। तब = तुम्हारा । इत् = ही। सत्यम् = सत्य है।अनुवाद - हे अग्नि ! तुम हवि प्रदान करने वाले (अथवा दान करने वाले) (यजमान) के लिए जो कल्याण (कल्याणकारी कर्म) करोगे, हे अङ्गिरा (अङ्गारमय अग्नि) ! वह तुम्हारा ही (अर्थात् तुम्हारे ही सुख का साधन ) है - यह बात ) सत्य है। व्याकरण-अङ्ग = किसी को अपनी ओर आकृष्ट करने के लिए प्रयुक्त सम्बोधनात्मक निपात। दाशुषे = दाश् (देना) + क्वसु प्रत्यय, च० एक० । उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा॑वस्तर्ध॒या व॒यम् । नमो॒ भ॑रन्त॒ एम॑सि ।।७।।पदपाठ-उप॑। त्वा॒ा। अ॒ग्ने॒। दि॒वेदि॑वे । दोषा॑ऽवस्तः । धि॒या । व॒यम् । नम॑ः । भर॑न्तः । आ । इ॒म॒सि॒ ।।७।।सायण-भाष्य हे अग्ने वयम् अनुष्ठातारो दिवेदिवे प्रतिदिनं दोषावस्तः रात्रावहनि च धिया बुद्ध्या नमो भरन्तः नमस्कारं सम्पादयन्तः उप समीपे लग एमसि त्वामागच्छामः।अन्वय-दोषावस्तः अग्नेः ! वयं दिवेदिवे नमः भरन्तः त्वा उप आ। इमसि । शब्दार्थ-दोषावस्तः = रात्रि (दोषा) को प्रकाशित करने वाले। अग्ने = हे अग्नि ! वयम् = हम लोग। दिवेदिवे = प्रतिदिन। धिया = बुद्धि से, स्तुति से, श्रद्धासे। नमः = नमस्कार। भरन्तः = करते हुए। त्वा = तुम्हारे। उप = इमसि = आते हैं।समीप । आअनुवाद - हे रात्रि को प्रकाशित करने वाले अग्नि ! हम लोग प्रतिदिन श्रद्धापूर्वक नमस्कार करते हुए तुम्हारे समीप आते हैं।व्याकरण-भरन्तः = √भृ ( धारण करना) + शतृ + प्र० बहु० । इमसि इम: (लौकिक संस्कृत); √इ (जाना) + उ०पु०, बहु०; 'इदन्तो मसि' सूत्र से वेद में कभी-कभी 'मः' का 'मसि' हो जाता है। राज॑न्त॒मध्व॒राणा॑ गो॒पामृतस्य॒ दीदि॑विम् । वर्ध॑मानं॒ स्वे दमे॑ ।।८।।पदपाठ-राज॑न्तम्। अ॒ध्व॒राणा॑म् । गो॒पाम्। ऋ॒तस्य॑ । दीदि॑विम्। वर्ध॑मान॒सम् । स्वै । दमै ॥ ८ ॥सायण-भाष्य-पूर्वमन्त्रे 'त्वामुपैम इत्यग्निमुद्दिश्योक्तम्। कीदृशं त्वाम्? राजन्तं दीप्यमानम् अध्वराणां राक्षसकृतहिंसारहितानां यज्ञानां गोपां रक्षकम् । ऋतस्य सत्यस्यावश्यंभाविनः कर्मफलस्य दीदिविं पौनः पुन्येन भृशं वा द्योतकम् । आहुत्याधारमग्निं दृष्ट्वा शास्त्रप्रसिद्धं कर्मफलं स्मर्यते । स्वे दमे स्वकीयगृहे यज्ञशालायां हविर्भिः वर्धमानम्।'अन्वय-राजन्तम् अध्वराणां गोपाम् ऋतस्य दीदिविं स्वे दमे वर्धमानम्। शब्दार्थ - राजन्तम् = देदीप्यमान, प्रकाशित होते हुए। अध्वराणाम् = हिंसा- रहित यज्ञों के । गोपाम् = रक्षक। ऋतस्य = सत्य के ( अथवा कर्मफल के ) । के) दीदिविम् = प्रकाशक (अथवा द्योतक) । स्वे दमे = अपने घर (यज्ञ-शाला) में। वर्धमानम् = बढ़ते हुए ।अनुवाद- देदीप्यमान (प्रकाशित होते हुए), हिंसारहित यज्ञों के रक्षक, सत्य के प्रकाशक (अथवा यज्ञ-फल के द्योतक) और अपने घर (= यज्ञशाला) में बढ़ते हुए (तुम्हारे समीप हे अग्नि ! हम आते हैं)। (अग्नि में आहुति डालते समय अग्नि को देखकर शास्त्र प्रसिद्ध यज्ञ-फल का स्मरण हो जाता है। अतएव अग्नि को यज्ञफल का द्योतक कहा गया है)।व्याकरण-राजन्तम् = राज् (प्रकाशिन होना) + शतृ, द्वितीया, एक० । दीदिविम् = दिव् (प्रकाशित होना) + क्विन्, द्वित्व हुआ द्वि० ए० । वर्धमानम् = वृध् (बढ़ना) + शानच् द्वि० ए० । स न॑ पि॒तेव॑ सू॒न॒वेऽग्ने॑ सू॒पाय॒नो भ॑व । सच॑स्वा नः स्व॒स्तये॑ ।।९।।पदपाठ- सः। नः॒। पि॒ताऽइ॑व। सू॒न॒वे । अग्ने॑ सु॒ऽउ॒पा॒य॒नः । भ॒व॒। सच॑स्व। नः । स्व॒स्तये॑ ।।९।।सायण-भाष्य- हे अग्ने सः त्वं नः अस्मदर्थं सूपायनः शोभनप्राप्तियुक्तः भव। तथा नः अस्माकं स्वस्तये विनाशराहित्यार्थं सचस्व समवेतो भव । तत्रोभयत्र दृष्टान्तः । यथा सूनवे पुत्रार्थं पिता सुप्रापः प्रायेण समवेतो भवति, तद्वत् । सचस्व |अन्वय-अग्नेः! सः त्वम् सूनवे पिता इव नः सूपायनः भव। स्वस्तये नः सचस्व ।शब्दार्थ-अग्ने = हे अग्ने ! सः = वह । (तुम) सूनवे = पुत्र के लिए। पिता इव = पिता की तरह। नः = हमारे लिए। सूपायनः = आसानी से पहुँचने योग्य, सरलता से पहुँचने योग्य, सुगम । भव = होवो, बन जाओ। स्वस्तये कल्याण के लिए। नः = हमारे । सचस्व = साथ रहो।अनुवाद - हे अग्नि ! वह (तुम) पुत्र के लिए पिता की तरह हमारे लिए सरलता से पहुँचने योग्य बन जाओ (सुगम बनो) (अर्थात् जिस प्रकार पिता अपने पुत्र के लिए आसानी से पहुँचने योग्य होता है, उसी प्रकार तुम हमारे लिए पहुँचने योग्य होवो) । (हमारे) कल्याण के लिए हमारे साथ रहो।व्याकरण- सूपायन = सु + उप + इ + युच्, सुखेन उपायनं यस्य सः सूपायनः प्र० ए०। भव = √भू + लोट्, म०पु०, एक० । स्वस्तये सु + √अस् + क्तिन्, च० एक०। लौकिक संस्कृत में स्वस्ति के रूप नहीं चलते। यह अव्यय है। सचस्व = √सच् + लोट्, म०पु०, एक० छान्दस् दीर्घता ।