वेदी पूजन हिन्दी एवं संस्कृत में Vedi Pujan Vidhi in Hindi Sanskrit


 (1) मङ्गलाचरणम् 

 मङ्गलं भगवान् विष्णुः मङ्गलं गरुडध्वजः । मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनो हरिः ।।  मङ्गलं भगवान् शम्भू मङ्गलं वृषभध्वजः । मङ्गलं पार्वती नाथ मङ्गलाय तनो हरः ।।

(2) पवित्रकरणम् 

  अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा । यः स्मरेत्पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ।।

(3) त्रिराचमनम् 

 केशवाय नमः ।  माधवाय नमः ।  नारायणाय नमः ।  गोविन्दाय नमः ।।

(4) आसनशुद्धिः- 

 पृथ्वीति मन्त्रस्य मेरुपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः । 

 पृथ्वि! त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।

(5) पवित्रीधारणम् --

 पवित्रे स्थो व्वैष्णव्यौ सवितुर्वःप्प्रसऽव । उत्त्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः ।। तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।

(6) तिलक या भस्म धारणम् 

 आदित्या वसवो रूद्राविश्वेदेवा मरूद्गणा तिलकं तु प्रयच्छन्तु धर्म कामार्थ सिद्धये ।।

 त्र्यायुषं जमदग्न्ने । कश्यपस्य त्र्यायुषम् । यद्देवेषु त्र्यायुषम् । तन्नोऽअस्तु त्र्यायुषम् ।।

(7) शिखा बन्धनम् 

 चिद्रूपिणि महामाये दिव्यतेजः समन्विते । तिष्ठ देवि शिखाबन्धे तेजो वृद्धिं कुरूष्वमे ।।

(10) स्वस्तिवाचन मङ्गलपाठ 

हरिः  आनो  भद्राः क्रतवो जन्तु विश्वतोऽदब्धासो अपरितास उद्भिदः । देवा नो जथा सद्मिद् वृधे असन्नप्रायुवो  रक्क्षितारो दिवे दिवे ।। १ ।। 

देवानां भद्रा सुमतिर्ऋजूयतां देवाना गुंग रातिरभि नो निवर्तताम् । देवाना गुंग सक्ख्यमुपसे दिमा वयं देवा न आयुः प्प्रतिरन्न्तु जीवसे ।। २ ।।

तान्न्पूर्व्वया निविदा हूमहे व्वयं भगं मित्रमदितिं दक्ष मस्त्रिधम् । अर्यमणं वरूण गुंग सोममश्विना सरस्वतीनः सुभगा मयस्करत् ।। ३ ।।

तन्नो वातो मयोभु वातु भेषजं तन्न्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोम सुतो मयो भुवस्तदश्विना शृणुतं धिष्ण्या युवम् ।। ४ ।।

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषानो जथा वेद सामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ।। ५ ।।

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः स्वस्ति नस्तार्क्षो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ६ ।।

पृषदश्वा मरूतः पृश्निमातरः शुभं ज्यावानो विद्थेषु जग्मयः अग्निर्जिह्वा मनवः सूर चक्षसो विश्वे नो देवा अवसागमन्निह ।। ७ ।।

भद्रं कण्णेभिः श्रृणुयाम देवा भद्रं पश्श्येमाक्क्षभिर्ज्य जत्राः । स्थिरै रङ्गैस्तुष्ट्टुवा गुंग सस्तनू भिर्व्यशेमहि देवहितं ज्यदायुः ।। ८ ।।


पृथ्वी ध्यानम् 

आधारभूता जगतस्त्वमेकामहीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैत-दाप्यायते कृत्स्नमलङ्घ्यवीर्ये ।।

दीप ध्यानम् 

शुभं करोतु कल्याणं आरोग्यं धनसंपदाम् । शत्रु बुद्धि विनाशाय दीपज्योति नमोस्तुते ।।

दीपज्योतिः परब्रह्म दीपज्योति जनार्दनः । दीपो हरतु मे पापं संध्यादीप नमोऽस्तुते ॥

गणपति ध्यानम् 

दधानं भृगाली मनिस ममले गण्ड युगले , दधानं सर्वार्थान् निज चरण सेवा सुकृतिने ।
दया धारं सारं निखिल निगमानाम् नूदिनं , गजास्यं स्मेरास्यम् तमिह कलये चित्त निलये ।।

गौरी ध्यानम् 

मुखे ते ताम्बूलं नयनयुगले कज्जलकला , ललाटे काश्मीरं विलसति गले मौक्तिकलता ।
स्फुरत्कांची शाटी पृथुकटितटे हाटकमयी , भजामस्त्वां गौरीं नगपतिकिशोरीम विरताम् ।।

 षोडशमातृका पूजन 

क्रममन्त्रआवाहनस्थापनपूजन
1ॐ गणपतये नमःगणपतिमावाहयामिस्थापयामिपूजयामि
2ॐ गौर्यै नमःगौरीमावाहयामिस्थापयामिपूजयामि
3ॐ पद्माये नमःपद्मामावाहयामिस्थापयामिपूजयामि
4ॐ शच्यै नमःशचीमावाहयामिस्थापयामिपूजयामि
5ॐ मेधायै नमःमेधामावाहयामिस्थापयामिपूजयामि
6ॐ सावित्र्यै नमःसावित्रीमावाहयामिस्थापयामिपूजयामि
7ॐ विजयायै नमःविजयामावाहयामिस्थापयामिपूजयामि
8ॐ जयायै नमःजयामावाहयामिस्थापयामिपूजयामि
9ॐ देवसेनायै नमःदेवसेनामावाहयामिस्थापयामिपूजयामि
10ॐ स्वधायै नमःस्वधामावाहयामिस्थापयामिपूजयामि
11ॐ स्वाहायै नमःस्वाहामावाहयामिस्थापयामिपूजयामि
12ॐ मातृभ्यो नमःमातृः आवाहयामिस्थापयामिपूजयामि
13ॐ लोकमातृभ्यो नमःलोकमातृः आवाहयामिस्थापयामिपूजयामि
14ॐ धृत्यै नमःधृतिमावाहयामिस्थापयामिपूजयामि
15ॐ पुष्ट्यै नमःपुष्टिमावाहयामिस्थापयामिपूजयामि
16ॐ तुष्ट्यै नमःतुष्टिमावाहयामिस्थापयामिपूजयामि
17ॐ आत्मनः कुलदेवतायै नमःआत्मनः कुलदेवतामावाहयामिस्थापयामिपूजयामि

  मनोजूतिर्जुषता माज्यस्य बृहस्पतिर्यज्ञ मिमन्तनो त्वरिष्टं यज्ञ गुंग समिमन्दधातु । विश्वे देवा स इह मादयन्तामोम् प्रतिष्ठ ।

गौरी पद्मा शची मेधा, सावित्री विजया जया ।
देवसेना स्वधा स्वाहा, मातरो लोकमातरः॥
धृतिः पुष्टिस्तथा तुष्टिः, आत्मनः कुलदेवता ।
गणेशेनाधिका ह्येता, वृद्धौ पूज्याश्च षोडश ॥

सप्तघृत मातृका पूजनम्

क्रममन्त्रआवाहनस्थापन

1ॐ कुमार्यै नमःकुमारीमावाहयामिस्थापयामि

2
ॐ धनदायै नमःधनदामावाहयामिस्थापयामि

3
ॐ नन्दायै नमःनन्दामावाहयामिस्थापयामि

4
ॐ विमलायै नमःविमलामावाहयामिस्थापयामि

5
ॐ मङ्गलायै नमःमङ्गलामावाहयामिस्थापयामि

6
ॐ अचलायै नमःअचलामावाहयामिस्थापयामि

7
ॐ पद्मायै नमःपद्मामावाहयामिस्थापयामि

सप्तघृत मातृका ध्यानम्

श्रीर्लक्ष्मीधृतिर्मेधा स्वाहा प्रज्ञा सरस्वती । माङ्गल्येषु प्रपूज्यन्ते सप्तैता घृतमातरः ।।

सप्तघृत मातृका प्रार्थना

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी ,

गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्तोत्तरीया ।

या र्लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्त्रापिता हेमकुम्भैः ,

सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता ।।

चौसठ योगिनी ध्यानम्

गजानना सिंहमुखी मयूरी कुब्जा , श्वदृंष्टा शरभानना शुकी ।

श्येनी प्रचंडा मृगलोचना च , योगिन्यरस्मान् दुरितादवन्तु ।।

ॐ आवाहयाम्यहं देवी योगिनीं परमेश्वरीम् ।

योगाभ्यासेन संतुष्टा परं ध्यानसमन्विता ॥

दिव्यकुण्डल संकाशा दिव्यज्वाला त्रिलोचना ।

मूर्तिमती ह्यमूर्त्ता च उग्राचैवोग्ररूपिणी ॥

अनेक भावसंयुक्ता संसारार्णवतारिणी ॥

यज्ञे कुर्वन्तु निर्विघ्नं श्रेयो यच्छन्तु मातरः ।।

ॐ भूर्भुवः स्वः महाकाली महालक्ष्मी -महासरस्वती सहिताः दिव्ययोगिन्यादि चतुष्षष्टि योगिन्यः इहागच्छत इह तिष्ठत ॥

वास्तु ध्यानम्

वास्तोस्पते सकल किल्विष कल्प वारे ,
लोकस्य राक्षण विधौ त्वधि जात भूमौ ।
ऋद्धि प्रदो भवतु सर्व शरीर भाजां ,
देवाधिदेव नितरां कुरू मङ्गलं मे ।।

क्षेत्रपाल ध्यानम्

कर कलित कपालः कुण्डली दण्डपाणिः , तरूण तिमिरनील ब्यालयज्ञोपवीती ।।

क्रतु समये सपर्या विघ्नविच्छेद हेतुः , जयति बटुकनाथः सिद्धिदः साधकानाम् ।।

क्षेत्रपाल प्रार्थना


कौलीरे चित्रकूटे हिमगिरी शिखरेकाल जलान्धरेवा , सौराष्ट्रे सिंधु देशे मगधपुरवरे कौसलेवाकलिङ्गे ।

कर्णाटे कौङ्गणेवाभृगुषु पुरवरे कान्यकुब्जेस्थितेवा , ते सर्वे यज्ञरक्षाकरण कृतधियः पातुवः क्षेत्रपालाः ।।

॥ नवग्रह प्रार्थना मंत्र


" रविराज सदा प्रदान करें शशि शीतलता निज देत रहें क्षितिनन्दन नन्दन को सुख दें ।

बुध बुद्धिविवेक बढ़ाते रहें । गुरू गौरवशाली बनाए हमें भृगु भोग सुदृष्य दिलाते रहें ।।

न राहु सुखों से भरें घर को और केतु ध्वजा फहराते रहें ।

हरिधात महेश सुरेश सदा । निज मङ्गल काज कराते रहें

सूर्यः शौर्यमथेन्दुरुच्च पदवीं, सन्मंगलं मंगल: सद्बुद्धिञ्चबुधो गुरूश्चगुरुतां, शुक्रः सुखं शं शनिः ।

राहुर्बाहुबलं करोतु विपुलं, केतुः कुलस्योन्नतिं नित्यं प्रीतिकरा भवन्तु भवतां, सर्वे प्रसन्ना ग्रहाः ॥

एकश्लोकीनवग्रहस्तोत्रम्


आधारे प्रथमे सहस्रकिरणं, ताराधवं स्वाश्रये
माहेयं मणिपूरके हृदि बुधं, कण्ठे च वाचस्पतिम् ।
भ्रूमध्ये भृगुनन्दनं दिनमणेः, पुत्रं त्रिकूटस्थले
नादिर्मसु राहु-केतु-गुलिकान्नित्यं नमाम्यायुशे ॥

ॐ मनो जूतिर्ज्जुषतामाज्ज्यस्य बृहस्पतिर्य्यज्ञमिमं , तनोत्वरिष्टं य्यज्ञ समिमं दधातु । विश्वे देवासऽइह मादयन्तामों ३ प्रतिष्ठ ॥

असख्यात रूद्रकलशस्थापनम्


असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे , सुरतरूवरशाखा लेखनी पत्रमुर्वी ।

लिखति यदि गृहीत्वा शारदा सर्वकालम् , तदपि तव गुणानामीश पारं न याति ।।

सर्वतोभद्र देवता ध्यानम्


यं ब्रह्मावरुणेन्द्ररुद्रमरुतः स्तुवन्ति दिव्यैः स्तवैः
र्वेदैः साङ्गपदक्रमोपनिषदै र्गायन्ति यं सामगाः
ध्यानावस्थिततद्गतेन मनसा पश्यन्ति यं योगिनो
यस्यान्तं न विदुः सुरासुरगणा देवाय तस्मै नमः

हनुमात् ध्यानम्


अतुलितबलधामं हेमशैलाभदेहं दनुजवनकृशानुं ज्ञानिनामग्रगण्यम् ।

सकलगुणनिधानं वानराणामधीशं रघुपतिप्रियभक्तं वातजातं नमामि ॥

गोष्पदीकृतवारीशं मशकीकृतराक्षसम् । रामायणमहामालारत्नं वन्देऽनिलात्मजम् ॥

अञ्जनानन्दनं वीरं जानकीशोकनाशनम्क पीशमक्षहन्तारं वन्दे लङ्काभयङ्करम् ॥ 

उल्लङ्घ्य सिन्धोः सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः ।

आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥

मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।

वातात्मजं वानरयूथमुख्यं श्री राम दूतं शरणं प्रपद्ये ॥

यत्र यत्र रघुनाथकीर्तनं तत्र तत्र कृतमस्तकाञ्जलिम् ।

बाष्पवारिपरिपूर्णलोचनं मारुतिं नमत राक्षसान्तकम् ॥

आञ्जनेयमतिपाटलाननं काञ्चनाद्रिकमनीयविग्रहम् ।

पारिजाततरुमूलवासिनं भावयामि पवमाननन्दनम् ॥

केसरीपुत्र दिव्याय सीतान्वेषपराय च । वानराणां वरिष्ठाय मङ्गलं श्रीहनूमते ॥

रामचन्द्र ध्यानम्


भजेऽहं सदा राममिन्दीवराभं भवारण्यदावानलाभाभिधानम् ।
भवानीहृदा भावितानन्दरूपं भवाभावहेतुं भवादिप्रपन्नम् ॥

लसच्चन्द्रकोटिप्रकाशादिपीठे समासीनमङ्के समाधाय सीताम् ।

स्फुरद्धेमवर्णां तडित्पुञ्जभासां भजे रामचन्द्रं निवृत्तार्तितन्द्रम् ।।

ब्रह्ममहेन्द्रसुरेन्द्रमरुद्गणरुद्रमुनीन्द्रगणैरतिरम्यं

क्षीरसरित्पतितीरमुपेत्य तुतं हि सतामवितारमुदारम् ।

भूमिभरप्रशमार्थमथ प्रथितप्रकटीकृतचिद्धनमूर्तिम्

त्वां भजतो रघुनन्दन देहि दयाघन मे स्वपदाम्बुजदास्यम् ॥

श्री सरस्वती ध्यान प्रार्थना मंत्र श्लोक


या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।

या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा वन्दिता सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1 ॥

शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं वीणा पुस्तक - धारिणीमभयदां जाड्यान्ध कारापहाम्।

हस्ते स्फाटिकमालिकां विदधतीं पद्मासने संस्थिताम् वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् ॥2॥

ॐ नमोस्तुते व्यास विशाल बुद्धे फुल्लारविन्दा यतपत्रनेत्रं ।

येन त्वया भारत पूर्ण तैलः प्रज्वालितो ज्ञानमया प्रदीपः ॥

ॐ वीणाधरे विपुल मंगल दान शीले भक्तार्तिनाशिनी विरंचि हरीशवद्ये ।

कीर्तिप्रदेऽखिल मनोरथदे महार्हे विद्या प्रदायिनी सरस्वती नौमि नित्यं ॥

श्री सरस्वती दैव्यै नमः ।।

सम्पूर्ण पूजन प्रारम्भ

पाद्यम्

ॐ नमोस्तु नीलग्रीवाय सहस्त्राक्षयमीढुषे अथो ये अस्यसत्वानो हन्तेभ्यो करन्नमः ।।

सर्वतीर्थ समुद्भूतं पाद्यं गन्धा दिभिर्युतम् । विघ्नराज गृहाणेदं भगवन्भक्त वत्सल ।।

अर्घ्यम्

निधिनां सर्वदेवानां त्वमर्घ्यं गुणा ह्यसि । सिंहो परिस्थिते देवि गृहाणार्घ्यं नमोस्तु ते ।।

आचमनम्

कर्पूरेण सुगन्धेन वासितह स्वादु शीतलम् । तोयमाचमनीयार्थं गृहाण परमेश्वरः ।।

स्नानम्

मन्दाकिन्यास्तु यद्वारि सर्व पापहरं शुभम् । तदिदं कल्पितं देव स्नानार्थम् प्रति गृह्यताम् ।।

पञ्चामृत स्नानम्

ॐ पञ्चनद्यः सरस्वती मपि यन्ति सस्त्रोतसः । सरस्वती तु पञ्चधा सो देशे भवत्सरित् ।।

शुद्धोदक स्नानम्

शुद्धवालः सर्वशुद्धवालो मणि वालस्तअस्विनाः श्वेतः श्येताक्षोरूणस्ते रूद्राय पशु पतये कर्ण्णायामा अवलिप्ता रौद्रा नभो रूपाः पार्ज्जन्याः ।।

वस्त्रम्

शीत वातोष्ण संत्राणां लज्जाया रक्षणं परम् । देहलङ्कारणं वस्त्रमतः शान्तिं प्रयच्छ मे ।।

यज्ञोपवितम्

सुवर्णसूत्रमयं दिव्यं ब्राह्मणा निर्मितं पुरा । उपवीतं मया दत्तं गृहाण परमेश्वरः ।।

यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् । आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ।।

चन्दनम्

त्वां गन्धर्व्वा अखनँस्त्वामिन्द्रस्त्वां बृहस्पतिः त्वामोषधे सोमो राजा व्विद्वान्यक्ष्मादमुच्चयत ।।

ॐ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम् ।।

अक्षतम्

ॐ अक्षन्नमीमदन्त ह्यवप्प्रियाअधूषत । अस्तोषत स्वभानवो व्विप्प्रा नविष्ठ्ठया मती योजान्न्विद्न्द्र ते हरी ।।

अक्षताश्च सुरश्रेष्ठाः कुङ्कुमाक्ताः सुशोभिताः । मया निवेदिता भक्त्या गृहाण परमेश्वर ।।

पुष्पम्

ॐ इदं व्विष्ष्णुर्व्विचक्क्रमे त्र्त्रेधा निदधे पदम् । समूढमस्य पा गुंग सुरे स्वाहा ।।

पुष्पमाला

मन्दार पारिजातादि पाटली केतकानि च । जाती चम्पक पुष्पाणि गृहाणेमानि शोभनम् ।।

बन्धूककान्ञ्चन निभं रूचिराक्षमालां , पाशाङ्कुशौ च वरदां निज बाहुदण्डैः ।

बिभ्राणमिन्दुशकलाभरणं त्रिनेत्रम् , धर्माम्बिकेशमनिशं वपुराश्रयामि ।।

दूर्वाङ्कुरान्

ॐ काण्डात् काण्डात् प्ररोहन्ति परूषः परूषस्परि । एवा दूर्वेप्प्रतनु सहस्त्रेण शतेन च ।।

दूर्वेध्यमृत सम्पन्ने शतमुलेशं तां कुरू । शतं पातक संहस्त्री शतमायुष्यवर्धिनि ।।

शमीपत्रम्

ॐ शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये ॥ शंब्यो र॒भिस्त्र॑वन्तुन? ॥ १ ॥

ॐ अ॒ग्निर्मूर्द्धा । द्विव? क॒कुत्पति॑ पृथि॒व्याऽअ॒यम् ॥ अपा रेत सिजिन्वति ॥ २ ॥

बिल्वपत्रम्

ॐ नमो॑ ब॒ल्म्मने॑ च कव॒चिने॑ च॒ नमो॑ व्व॒र्मिर्णे च व्वरु॒थिने च॒ नम॑ श्शु॒ताय॑ च श्श्रुतमे॒नाय॑ च॒ नमो॑ दुन्दुभ्या॒य चा। हन॒न्या॒य च ॥

विजयाम्

ॐ यत्पुरु॑षं॒ व्यद॑धुः क॒ति॒धाय॑कल्पयन्। मुख॒ङ्कम॑स्या सा॒त्किम्बाहू किमुरू पार्दा उच्च्येते ॥ १ ॥

तुलसी हेमरूपां च रत्न रूपां च मञ्जरीम् । भव मोक्ष प्रदां तुभ्यं समर्पयामि हरिप्रियाम् ॥ २ ।।

सिन्दूरम्—

ॐ सिन्धरिव प्प्राद्ध्व॒ने श॑घ॒नासो॒ व्वात॑ प्रमिय पतयन्ति ब॒ह्वा? ॥

घृ॒तस्य॒ धारा॑ ऽअरू॒षो न व्वाजी काष्ठ॑ भि॒न्दन्नु॒र्म्मभि॒ पव॑मानः ॥ १ ॥

नानापरिमल द्रव्याणि

ॐ अहि॑रिव भा॒गै? पर्व्वेति बहुंज्यायह्नितं प्य॑रि॒बाध॑मानः ।

ह॒स्त॒ग्ध्नोव्विश्श्वा॑ व्व॒युना॑नि वि॒द्वान्न्पु॒मा॒न्पुमा॑ सं॒ प्परि॑पातु व्वि॒श्वतः ॥

सुगन्धित द्रव्य-

ॐ त्र्यम्बक यजामहे सुग॒न्धिं पुष्टिवर्धनम् । उ॒र्वा॒रू॒कमि॑व॒ बन्ध॑नान्मृत्योर्मुशी॑य॒ मामृता॑त् ॥

ॐ अह॑रिव भा॒गै? पर्व्वेति बहुंज्याया॑ह॒तिं प्य॑रि॒बाध॑मानम् ।

धूपम्

ॐ यः शुचिः प्रयतोभूत्वा जुह्यादाज्यमन्वहम्। सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् ।।

वनस्पतिरसोद्भूतो गन्धाढ्योगन्ध गन्धाढ्योगन्ध उत्तमः । आघ्रेयः सर्व देवानां धूपोऽयं प्रतिगृह्यताम् ।।

दीपम्—

ॐ अ॒ग्ग्निज्ज्र्ज्योति॒ ज्ज्र्ज्योति॑र॒ग्निः स्वाहा॒ सूर्ध्वो ज्ज्र्ज्योति॒ज्ज्र्ज्योति॒ सूर्ण॒ स्वाहा॑ । अ॒ग्निर्व्वर्चो ज्ज्योति॒र्व्वर्च॒ स्वाहा॒ सूर्ध्वो व्वचो॒ ज्ज्योति॒र्व्वर्च्च स्वाहा । ज्ज्योति॒ सूर्च्छ सूर्य्यो ज्ज्योति॒ स्वाहा॑ ।

दीपो हरतु मे पापं पूजादीप नमोऽस्तु ते ।। शुभं करोतु कल्याणमारोग्यं सुखसम्पदाम्।

नैवेद्य-

ॐ नाब्भ्यो ऽआसीद॒न्तरि॑क्ष शी॒ष्णो॑ द्यौः सम॑वर्तत । पद्भ्यां भूमिर्दिशः श्रोत्रा॒त्तथा॑ लो॒काँर ऽअ॑कल्पयन् ॥

ॐ त्वदीयं वस्तु गोविन्द तुभ्यमेव समर्पये । गृहाण सुमुखो भूत्वा प्रसीद परमेश्वर ।।

करोद्वर्तन—

ॐ अ॒ εशूना॑ ते अ॒ εशुः पृ॑च्यतां॒ परु॑षा॒ पस्ने । ग॒न्यस्ते॒ सोम॑मवतु॒ मदा॑य॒ रसो॒ ऽअच्यु॑तः ॥

नाना सुगन्धि द्रव्यं च चन्दनं रजनीयुतम् । करोद्वर्तनकं देव गृहाण परमेश्वर ॥

ताम्बूल-पूंगीफल

ॐ यत्पुरुषेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत । व्व॒स॒न्ता॒ऽस्यासी॒दाज्ज्ये॑ गी॒ष्मऽइ॒ध्मः श॒रद्ध॒विः ॥

दक्षिणा—

ॐ हि॒र॒ण्ण्य॒ग॒र्व्यः सम॑वर्त॒ताग्रे॑भू॒तस्य॑ जा॒त? पति॒रेक॑ ऽआसीत् । सदा॑ धारपृथि॒वीन्द्यामु॒ते ह॒विषा॑व्विधेम ॥ १ ॥

ॐ यह॒त्ते॑व्वत्प॑रा॒दान॒व्वत्पू॒र्तव्वाश्च॒ दक्षि॑णा । तद॒ग्निर्व्वैश्श्वकर्म्मण? स्व॑र्दे॒वेषुनो दधत् ॥२॥

आर्तिक्यम्

ॐ इदं ह॒विः ॥ प्र॒जन॑न॒म्मेऽअस्तु॒ दश॑वीर॒ Ę सर्व्वगण स्व॒स्तये॑ । आ॒त्म॒सनि॑ग्प्ण्रजा॒ सनि॑पशु॒ सनि॑ लोक॒सन्य॑भय॒सनि॑ ॥ अ॒ग्नि? प्ण्रजाम्बेहुलाम्मे॑ करो॒त्वन्न॒म्प यो॒रेतो॑ ऽअ॒स्म्मा सु॑धत्त ॥ १ ॥

मन्त्र पुष्पांजलि श्लोक


ॐ यज्ञेन यज्ञमयजन्त देवास्तनि धर्माणि प्रथमान्यासन् ।ते ह नाकं महिमान: सचंत यत्र पूर्वे साध्या: संति देवा: ॥ ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे । स मस कामान् काम कामाय मह्यं । कामेश्र्वरो वैश्रवणो ददातु कुबेराय वैश्रवणाय। महाराजाय नम: । ॐ स्वस्ति, साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ट्यं राज्यं महाराज्यमाधिपत्यमयं । समन्तपर्यायीस्यात् सार्वभौमः सार्वायुषः आन्तादापरार्धात् । पृथीव्यै समुद्रपर्यंताया एकरा‌ळ इति ॥ ॐ तदप्येषः श्लोकोभिगीतो । मरुतः परिवेष्टारो मरुतस्यावसन् गृहे आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥

हरि: ॐ एक दंताय विद्महे वक्रतुण्डाय धीमहि । तन्नो दंतीप्रचोदयात्।

हरि:ॐ नारायण विद्महे वासुदेवाय धीमहि । तन्नो विष्णु: प्रचोदयात्।

हरि:ॐ महालक्ष्म्यै च विद्महे विष्णु पत्न्यै च धीमहि । तन्नो लक्ष्मी प्रचोदयात्।

हरि: ॐ नंद नन्दनाय विद्महे यशोदा नंदनाय धीमहि । तन्नो कृष्ण: प्रचोदयात्।

हरि: ॐ भास्कराय विद्महे दिवाकराय धीमहि । तन्नो सूर्य: प्रचोदयात्।

हरि ॐ अंजनी सुताय विद्महे वायुपुत्राय धीमहि । तन्नो हनुमत प्रचोदयात्।

हरि ॐ चतुर्मुखाय विद्महे हंसारुढ़ाय धीमहि । तन्नो ब्रह्मा प्रचोदयात्।

हरि: ॐ वृषभानुजायै च विद्महे कृष्णप्रियायै च धीमहि । तन्नो राधा प्रचोदयात्।

हरिः ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्र: प्रचोदयात्।

ॐ सेवन्तिका बकुल चम्पक पाटलाब्जै, पुन्नाग जाति करवीर रसाल पुष्पैः बिल्व प्रवाल।

तुलसीदल मंजरीभिस्त्वां पूजयामि जगदीश्वर मे प्रसीद।।

मंदार माला कुलितालकायै कपालमालांकित शेखराय

दिगम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय .

ॐ नाना सुगन्धि पुष्पाणि यथा कालो भवानी च,
पुष्पान्जलिर्मया दत्त ग्रहाण परमेश्वर ।

प्रदक्षिणाम्

यानि कानि च पापानि ज्ञाता ऽज्ञात कृतानि च। तानि सर्वाणि नश्यन्ति प्रदक्षिणा पदे पदे ।। पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादि फलं ददाति । तां सर्वपापक्षयहेतु भूतां प्रदक्षिणां ते परितः करोमि ।।

विशेषार्घ्यम्—


रक्ष रक्ष गणाध्यक्ष! रक्ष त्रैलोक्यरक्षक । भक्तानामभयं कर्ता त्राता भव भवार्णवात् ।। द्वैमातुर! कृपासिन्धो! षाण्मातुराग्रज प्रभो ! । वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद् ।। अनेन सफलार्घ्येण सफलोऽस्तु सदा मम ।।

प्रार्थना-

विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।

नागाननाय श्रुतियज्ञविभूषिताय गौरीसुताय गणनाथ! नमो नमस्ते ।। १ ।।

भक्तार्ति नाशनपराय गणेश्वराय सर्वेश्वराय शुभदाय सुरेश्वराय ।

विद्याधराय विकटाय च वामनाय भक्तप्रसन्नवरदाय नमो नमस्ते ॥२॥

नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः । नमस्ते रूद्ररूपाय करि रूपाय ते नमः ॥३॥

विश्वरूप- स्वरूपाय नमस्ते ब्रह्मचारिणे । भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ॥४॥

लम्बोदर ! नमस्तुभ्यं सततं मोदकप्रिय । निर्विघ्नं कुरु मे देव! सर्वकार्येषु सर्वदा ।। ५ ।।

त्वां विघ्नशत्रुदलनेति च सुन्दरेति भक्तप्रियेति सुखदेति फलप्रदेति ।

विद्याप्रदेत्यघहरेति च ये स्तुवन्ति तेभ्यो गणेश! वरदो भव नित्यमेव ॥ ६ ॥

वन्दे देव गजाननं षडगुरूं वन्दे जगत्भूषणम | वन्दे विघ्न विनायकं त्रिभुवनं वन्दे शुभ मङ्गलम्॥७॥

वन्दे ईश उमासुतं कविवरं वन्दे सुलम्बोदरम् । वन्दे सिद्धि विनायकं शिवसुतं कुर्यात्सदा मङ्गलम् ॥८ ॥

अलि मण्डल मण्डित गण्डतलम्ति लकी कृत कोमल चन्द्रकरम् ।

करिदारि विदारित बैरिबलम्प्र णमामि गणाधिपतिं जटिलम् ॥ ९ ॥

त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेतत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ।।

गणेश पूजने कर्म यन्यूनमधिकं कृतम् । तेन सर्वेण सर्वात्मा प्रसन्नोऽस्तु सदा मम ।।

अनया पूजया गणेशाम्बिके प्रीयेतां न मम ।।

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.