shishupal vadh mahakavyam शिशुपालवध महाकाव्यम्

 महाकविमाघप्रणीतम् 

शिशुपालवधमहाकाव्यम्  प्रथम सर्ग अध्ययन 

मङ्गलाचरणम् 

श्रियः पतिः श्रीमति शासितुं जगज् - जगन्निवासो वसुदेवसद्मनि ।
वसन् ददर्शावतरन्तमम्बरा - द्धिरण्यगर्भाङ्गभुवं मुनिं हरिः ।। १ ।।

अन्वय = श्रियः पतिः जगन्निवासः जगत् शासितुं श्रीमति वसुदेवसद्मनि वसन् हरिः अम्बरात् अवतरन्तं हिरण्यगर्भाङ्गभुवं मुनिं ददर्श ।।

व्याख्या = श्रियः-लक्ष्म्याः  पतिः-भर्ता, जगन्निवासः-जगतां संसाराणां निवासः आधारभूतः कुक्षिगतसकलभुवन इति यावत् , जगत-विश्वं शासितुं-नियन्तुं दुष्टनिग्रहशिष्टानुग्रहाभ्यां व्यवस्थापयितुमिति यावत् , श्रीमति-लक्ष्मी युक्ते वसुदेवसद्मनि-वसुदेवस्य शूरसेनपुत्रस्य यादवक्ष त्रियस्य सद्मनि गृहे , वसन्-श्रीकृष्णरुपेण तिष्ठन् , हरिः-विष्णुः अम्बरात्-आकाशात् अवतरन्तम्-अवरोहन्तम् , हिरण्यगर्भाङ्गभुवं-हिरण्यगर्भस्य ब्रह्मणः अङ्गभुवं गात्रजं , मुनिम्-ऋषिं ददर्श-अवलोकयामास ।।

अनुवाद = लक्ष्मी के पति , संसार के आधार-स्वरुप तथा विश्व को शासित करने के लिए श्रीसम्पन्न वसुदेवजी के घर में निवास करते हुए श्रीकृष्ण ने आकाश से उतरते हुए , ब्रह्माजी के अङ्ग से उत्पन्न मुनि ( नारद ) को देखा ।।

गतं तिरश्चीनमनूरुसारथेः प्रसिद्धमूर्ध्वज्वलनं हविर्भुजः । 
पतत्यधो धाम विसारि सर्वतः किमेतदित्याकुलमीक्षितं जनैः ।। २ ।। 

अन्वय = अनूरुसारथेः गतं तिरश्चीनं प्रसिद्धम् हविर्भुजः ऊर्ध्वज्वलनम ( प्रसिद्धम् ) सर्वतः विसारि ( इदं ) घाम अधः पतति , एतत् किम् इति जनैः आकुलं ( यथा स्यात् तथा ) ईक्षितम् ।।

व्याख्या = अनूरुसारथेः-सूर्यस्य , गतं-गमनं , तिरश्चीनं-तिर्यक्भूतम् , प्रसिद्धं-विख्यातम् , हविर्भूजः-वन्हेः , ऊर्ध्वज्वलनम्-उपरिस्फूरणं , ( प्रसिद्धं ) सर्वतः-समन्तत , विसारि-प्रसरणशीलम् , ( इदं ) घाम-तेजः , अधः-नीचैः , पतति-आगच्छति , एतत-सूर्याग्निविलक्षणं , किम्-किमात्मकं , धाम , इति-इत्थम् , जनैः-लोकैः आकुलं-सम्भ्रान्तं ( यथा स्यात् तथा ) ईक्षितम् - अवलोकितम् ।

अनुवाद = सूर्य की गति चिरछी प्रसिद्ध हैं और अग्नि का ऊपर ( की ओर ) जलना ( प्रसिद्ध है ) ( किन्तु ) सब ओर फैलने वाला ( यह ) तेज नीचे आ रहा हैं । यह क्या हैं इस प्रकार लोगों ने व्यग्रता - पूर्वक देखा ।।

चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविकृतिम् ।
विभुर्विभक्तावयवं पुमानिति कमादमुं नारद इत्यबोधि सः ।। ३ ।।

अन्वय = विभुः सः पुरा त्विषां चय इति प्रवधारितम् । ततः विभाविताकृतिं शरीरी इति , विभक्तवयवं पुमान् इति , अमुं क्रमात् नारद इति अबोधि । 

व्याख्या = विभुः-व्यापकः , सः-हरिः , पुरा-प्रथमम् , त्विषां-तेजसां , चयः-समूहः , इति , अवधारितम्-निश्चितम् । ततः-अनन्तरम् , विभाविताकृतिं-लक्षितमूर्ति , शरीरी-देहधारी , इति ( अवधारितम् ) विभक्तावयवं - विभक्ताः विविच्य गृहीताः अवयवाः अङ्गानि यस्य तादृशम् , पुमान्-पुरुषः इति ( अवधारितम् ) अमुम् - आगच्छन्तं व्यक्तिविशेषम् , क्रमात् - सामान्यविशेषज्ञानक्रमेण , नारदः-प्रसिद्धदेवर्षिः इति अबोधि - ज्ञातवान् ।।

अनुवाद = व्यापक हरि ने पहले तेजों का समूह समझा , पश्चात् आकृति का निश्चय होने पर देहधारी ( समझा ) और ( फिर हाँथ , पैर आदि ) अवयवो के अलग - अलग दिखाई देने पर उस ( व्यक्ति ) को क्रमशः नारद समझा ।।

नवानधोधो बृहतः पयोधरान् समूढकर्पूरपरागपाण्डुरम् ।
क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना स्फूटोपमं भूतिसितेन शम्भुना ।। ४ ।।

अन्वय = नवान् बृहतः पयोधरान् अधोधः ( स्थितं ) समूढकर्पूरपरागपाण्डुरं क्षणं क्षणोत्क्षिप्तगजेन्द्रकृत्तिना भूतिसितेन शम्भुना स्फुटोपमम् ( अमुं नारद इत्यबोधि ) ।।

व्याख्या =  नवान् ृ-नवीनान् , बृहतः-विपुलान् , पयोधरान्-मेघान्  अधोधः-समीपाधःप्रदेशे , ( स्थितं ) समूढकर्पूरपरागपाण्डुरं-समूढः पुञ्जीकृतः कर्पूरस्य धनसारस्य परागः चूर्ण तद्वत् पाण्डुरं शुभ्रवर्णं क्षणं-मेघसमीपाव-स्थानक्षणे , क्षणोत्क्षिप्तगजेन्द्रकृत्तिना-क्षणेषु ताण्डवोत्सवेषु उत्क्षिप्ता उपरि धारिता गजेन्द्रस्य करिराजस्य कृत्तिः चर्म येन तादृशेन , भूतिसितेन-भूत्या भस्मना सितेन ( अधिकतर ) शुभ्रेण , शम्भुना-शिवेन , स्फुटोपमम्-सुस्पष्ट-सादृश्यम् ( अमुं नारद ( इत्यबोधि )।।

अनुवाद = नवीन एवं विशाल मेघों के निकटवर्ती निम्न प्रदेश में अवस्थित , एकत्रित कर्पूर-चूर्ण के समान धवल और ( अतएव ) क्षण भर के लिए ताण्डव नृत्य के अवसर पर गजचर्म को ऊपर धारण किए हुए तथा भस्म के कारण अधिकतर गौर वर्ण वाले शंकर से स्पष्ट उपमा प्राप्त किए हुए ( उस व्यक्ति को भगवान् श्रीकृष्ण ने नारद समझा ) ।। 

दधानमम्भोरूहकेसरद्युतीर्जटाः शरच्चन्द्रमरीचिरोचिषम् ।
विपाकपिङ्गास्तुहिनस्थलीरूहो धराधरेन्द्रं व्रततीततीरिव ।। ५ ।।

अन्वय = अम्भोरूहकेशरद्युतीः जटाः दधानम् शरच्चन्द्रमरीचिरोचिषम् ( अत एव ) विपाकपिङ्गाः तुहिनस्थलीरूहः व्रततीततीः ( दधानं ) धराधरेन्द्रम् इव ।।

व्याख्या = अम्भोरुहकेशरद्युतीः-अम्भोरुहस्य कमलस्य केशराः किञ्जल्काः तेषां द्युतिरिव द्युतिर्यासां ताः जटाः , दधानम्-धारयन्तं , शरच्चन्द्रमरीचिरोचिपम्-शरदः शरदृतोः चन्द्रः चन्द्रमाः तस्य मरीचयः किरणाः त इव रोचिः प्रभा यस्य तादृशम् ( अतएव ) विपाकपिङ्गाः-विपाकेन परिणामेन पिङ्गाःपिङ्गलाः , तुहिनस्थलीरुहः-तुहिनस्थल्याम् , तुषारभूमौ रोहन्ति ताः व्रततीततीः-व्रततीनां लतानां ततयः समूहाः ताः ( दधानं ) धराधरेन्द्रम् - हिमालयम् इव - तद्वत् अमुं नारद इत्यबोधि ।।

अनुवाद = कमल के केशर सी आभा वाली जटाओॆ को धारण करते हुए शरद् ऋतु के चन्द्रमा की किरणों सी कान्ति वाले ( अतएव ) परिपाक से पीले वर्ण वाली वर्फीली भूमि में उगने वाली लताओं के समुहों को धारण करते हुए हिमालय के समान ( उस व्यक्ति को श्रीकृष्ण ने नारद समझा ) ।। 

पिशङ्गमौञ्जीयुजमर्जुनच्छवि वसानमेणाजिनमञ्जनद्युति ।
सुवर्णसूत्राकलिताधराम्बरां विडम्बयन्तं शितिवाससस्तनुम् ।। ६ ।।

अन्वय = पिशङ्गमौञ्जीयुजम् अर्जुनच्छविम् अञ्जनद्युति एणाजिनं वसानम् ( अतएव ) सूवर्णसूत्राकलिताधराम्बरां शितिवाससः तनुं विडम्बयन्तम् ।।

व्याख्या =  पिशङ्गमोजीयुजम् -- पिशङ्गा पिङ्गला मौञ्जी मुञ्जमयी मेखला तया युज्यते इति तम् युक्तमिति यावत्, अर्जुनच्छविम् -- घवलकान्तिम्,  अञ्जनद्युति--कृष्णवर्णम्, एणाजिनम् — कृष्णमृगचर्म, वसानम्--- परिदधानम्, 
(अतएव) सुवर्णसूत्राकलिताघराम्बरां - सुवर्णसूत्रेण   कनकमेखलया  आकलितं बद्धम्   धराम्बरम् अन्तरीयकं
  यस्याः ताम्, शितिवाससः -- नीलाम्बरस्य  बलरामस्य, तनुं -- शरीरं, विडम्बयन्तम्- - अनुकुर्वाणम् (अमुं नारदं इत्यबोधि ) ।।

अनुवाद = पीले रङ्ग की मूँज की मेखला से युक्त , गौर वर्ण वाले , आंजन सी कान्ति वाले कृष्ण - मृग - चर्म को धारण किये हुए और ( अतएव ) सोने की करधनी से बँधे हुए अधोवस्त्र वाले नीलाम्बर ( बलराम ) के शरीर का अनुकरण करते हुए ( उन व्यक्ति को श्रीकृष्ण ने नारद समझा ) ।।

विहङ्गराजाङ्ग रुहेरिवायत- हिरण्मयोर्वीरुहवल्लितन्तुभिः ।
कृतोपवीतं हिमशुभ्रमुच्चकै- घनं घनान्ते तडितां गणैरिव ॥७॥

अन्वय = विहङ्ग राजाङ्गरुहैः इव श्रायते हिरण्मयोर्वीरुहवल्लितन्तुभिः कृतोपवीतं हिमशुभ्रम् (धतएव ) घनान्ते तडितां गणैः (उपलक्षितम्) उच्चर्क : धनमिव ।
व्याख्या = विहङ्गराजाङ्गरुहैः-- विहङ्गराजस्य गरुडस्य धङ्गरुहैः लोमभिः, इव - तुल्यः, प्रायतः - दीर्घे, हिरण्मयोर्वीरुहवल्लितन्तुभिः -- हिरण्मय्यां सुवर्ण- मध्याम् उर्व्या भूमौ रोहन्ति उत्पद्यन्ते याः वल्लयः लताः तासां तन्तुभिः सूक्ष्मा- वयवैः, कृतोपवीतं -- रचितयज्ञसूत्रं, हिमशुभ्रं -- तुषारवद्धवलम् (श्रतएव ), घनान्ते शरदि तडितां -- विद्युतां गणैः-- समूहैः (उपलक्षितम् ), उच्चकैः उन्नतम्, घनमिव -- मेघमिव (स्थितम् श्रमुं नारद इत्यबोधि ) ।

अनुवाद = गरुड़ के रोएँ के समान लंबे, सुवर्णमय पृथ्वी (सुमेरु पर्वत की भूमि) पर उगने वाली लताओं के तंतुओं से निर्मित यज्ञोपवीत धारण किये  हुए ( स्वयं ) हिम के समान धवल और ( अतएव ) शरद् ऋतु में बिजलियों के समूहों से शोभित ऊँचे मेघ के समान ( दीखने ) वाले उस व्यक्ति को श्रीकृष्ण ने नारद समझा ) ।।


 


एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.