गणेश पूजन विधि मंत्र सहित

गणेश पूजन हिन्दू धर्म में किसी भी शुभ कार्य, व्रत, अनुष्ठान या यात्रा से पहले किया जाने वाला सबसे प्रथम पूजन होता है। भगवान गणेश को विघ्नहर्ता (विघ्नों को दूर करने वाले) और सिद्धिदाता (सफलता देने वाले) कहा गया है।



मङ्गलाचरणम् 

मङ्गलं भगवान् विष्णु मङ्गलं गरूणध्वजः मङ्गलं पुण्डरीकाक्षं मङ्गलाय तनोहरिः  ।।

मङ्गलं भगवान् शम्भोः मङ्गलं मृत्युनाशनम् । मङ्गलं कष्टहर्तारं मङ्गलं शिवनामकम् ॥

मङ्गलं भगवान् दन्ती मङ्गलं गजवक्त्रकः । मङ्गलं मूलपूरुषः मङ्गलं सिद्धिविनायकः ॥


सर्वप्रथम आसन पर बैठकर ब्राह्मण द्वारा या स्वयं के ऊपर जल छिड़के ।।

अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा। यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यंतरः शुचिः॥

 तीन बार निम्न मंत्र बोलकर आचमन करें ।

ॐ केशवाय नमः 

ॐ माधवाय नमः 

ॐ नारायणाय नमः 

आचमन के पश्चात हाथ में जल लेकर ॐ ऋषिकेशाय नमः बोलकर हाथ धो लें ।

आसनशुद्धिः

🕉 पृथ्वीति मन्त्रस्य मेरूपृष्ठ ऋषिः, सुतलं छन्दः, कूर्मो देवता, आसने विनियोगः॥

🕉 पृथिवि त्वया धृता लोका, देवि त्वं विष्णुना धृता। त्वं च धारय मां देवि, पवित्रं कुरु चासनम्॥

हाथ धोने के बाद पवित्री धारण करें पवित्री के बाद बाएं हाथ में जल लेकर दाहिने हाथ से अपने ऊपर और पूजन सामग्री पर जल छिड़क ले ।।

🕉 पवित्रे स्थो वैष्णव्यो सावितुर्वः प्रसवः । उत्पुनामिच्छिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः । तस्यते पवित्रपते पवित्रपूतस्य यत्कामः पुनेतच्छकेयम् ।। 

यज्ञोपवीत धारण मंत्र

🕉 यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत् सहजं पुरस्तात्। आयुष्यं अग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः॥

तिलक या भस्म धारण मंत्र

🕉 आदित्या वसवो रुद्राः विश्वेदेवा मरुद्गणाः। तिलकं तु प्रयच्छन्तु धर्मकामार्थसिद्धये ॥

शिखा बन्धन मंत्र

🕉 मानसः केतनाय मान आयुषि मानो गोषु मानोऽश्वेषु रीरिषः। मानो वीरान्नुद्र भामिनो वधीः हविष्मन्तः सदमित्त्वा हवामहे॥

यजमान प्राणायाम करें ः-

🕉 ब्रह्म यज्ञानं प्रथमं पुरस्तात् विसीमतः सुरूचो वेन आवः। स बुध्न्य उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवः॥

🕉 नमः शम्भवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च॥

रक्षा विधानम् – दिग् रक्षणम्

ॐ गणाधिपं नमस्कृत्य नमस्कृत्य पितामहम् । विष्णुं रुद्रं श्रियं देवीं वन्दे भक्त्या सरस्वतीम्॥

स्थानाधिपं नमस्कृत्य ग्रहनाथं निशाकरम् । धरणीगर्भसंभूतं शशिपुत्रं बृहस्पतिम्॥

दैत्याचार्यं नमस्कृत्य सूर्यपुत्रं महाग्रहम् । राहुं केतुं नमस्कृत्य यज्ञारम्भे विशेषतः॥

शक्राद्या देवताः सर्वाः मुनींश्चैव तपोधनान् । गर्गमुनिं नमस्कृत्य नारदं मुनिसत्तमम्॥

वशिष्ठं मुनिशार्दूलं विश्वामित्रं च गोभिलम् । व्यासं मुनिं नमस्कृत्य सर्वशास्त्रविशारदम्॥

विद्याधिका ये मुनय आचार्याश्च तपोधनाः । तान् सर्वान् प्रणमाम्येव यज्ञरक्षा करांसदा॥

 (10) स्वस्तिवाचन मङ्गलपाठ

हरिः 🕉 आ नो भद्राः क्रतवो यन्तु विश्वतः अदब्धासो अपरितास उद्भिदः। देवा नो यथा सदमिद् वृधे असन्न् अपायुवो रक्षितारो  दिवे-दिवे॥


देवानां भद्रा सुमतिर्ऋजूयतां देवानां रात्रिरभि नो निवर्तताम् । देवानां सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तु जीवसे ॥ 

तान्न पूर्वया निविदा हूमहे वयं भगं मित्रमदितिं दक्षमस्त्रिधम् । अर्यमणं वरुणं सोममश्विनौ सरस्वतीनः सुभगा  मयोभुवः॥ 

तन्नो वातो मयोभु वातु भेषजं तन्माता पृथिवी तत्पिता द्यौः । तद्ग्रावाणः सोमसुतो मयोभुवस्त दश्विना शृणुतं  धिष्ण्या युवम् ।। 

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमवसे हूमहे वयम् । पूषाणं यथा वेद सामसद्वृधे रक्षिता पायुरदब्धः  स्वस्तये ॥ 

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेऽशियावहै । अग्निर्जिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः। स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥

शतं इन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्। पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तुः ॥

अदितिर्द्यौरदितिरन्तरिक्षम् अदितिर्माता स पिता स पुत्रः। विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् ॥

द्यौः शान्तिरन्तरिक्षं शान्तिः पृथ्वी शान्तिरापः शान्तिरोषधयः शान्तिः। वनस्पतयः शान्तिर्विश्वे देवाः शान्तिः ब्रह्म शान्तिः सर्वं शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि॥

यतो यतः समीहसे ततो नोऽभयं कुरू। शं नः कुरू प्रजाभ्योऽभयं नः पशुभ्यः। सुशान्तिर्भवतु ॥

श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः । उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः । शचीपुरन्दराभ्यां नमः । मातृपितृचरणकमलेभ्यो नमः । इष्टदेवताभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः ।
स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । सर्वेभ्यो तीर्थेभ्यो नमः । सिद्धिबुद्धिसहिताय श्रीमन्महागणाधिपतये नमः ॥

।। गुरूध्यानम् का मंत्र ।।

गुरूर्ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः । गुरूः साक्षात् परब्रह्म तस्मै श्रीगुरूवे नमः ।

श्री गुरू चरणकमलेभ्यो नमः सर्वोपचारार्थे गन्धाक्षत पुष्पाणि समर्पयामि  हस्ते अक्षत पुष्पाणि गृहित्वा शान्ति पाठं पठेयुः

संकल्प हस्तयोः ताम्बुलोपरि कुशा जला अक्षत फलं चादाय संकल्पम् कुर्यात्






एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.