श्री वेदसार शिवस्तवः आदि शंकराचार्य रचित
Vedsar Shiv Stava in Hindi
पशूनां पतिं पापनाशं परेशं गजेन्द्रस्य क्रत्तिं वसानं वरेण्यम् ।
जटाजूटमध्ये स्फुरद्गागवारिं महादेवमेकं स्मरामि स्मरारिम् ।।
महेशं सुरेशं सुरारार्तिनाशं विभुं विश्वनाथं विभूत्यङ्गभूषम् ।
निरूपाक्षमिन्द्वर्कवहिनत्रिनेत्रं सदानन्दमीडे प्रभूं पञ्चवक्त्रम् ।।
गिरीशं गणेशं गले नीलवर्णं गवेंद्राधिरूढं गणातीतरूपम् ।
भवं भास्वरं भस्मना भूषिताङ्ग भवानीकलत्रं भजे पञ्चवक्त्रम् ।।
शिवाकान्त शम्भो शशांकार्धमौले महेशान शूलिन् जटाजूटधारिन् ।
त्वमेको जगद्व्यापको विश्वरुप प्रसीद प्रसीद प्रभो पूर्मरूप ।।
परात्मानमेकं जगद्विजमाद्यं निरीहं निराकारमोंकारवेधम् ।
यतो जायते पाल्यते येन विश्वं तमीशं भजे लीयते यत्र विश्वम् ।।