दुर्गा पूजन विधि और मंत्र

सरल दुर्गा पूजन विधि

ध्यानम्

खड्गं चक्रगदेषुचापपरिधाञ्छूलं भुशुण्डीं शिरः। शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृताम् ॥ नीलाश्मद्युतिमास्यपाददशकां सेवे महाकालिकां। यामस्तौत्स्वपिते हरौ कमलजो हन्तुं मधुं कैटभम् ॥ १ ॥

अक्षस्त्रक्परशुं गदेषुकुलिशं पद्मं धनुष्कुण्डिकां । दण्डं शक्तिमसिं च चर्म जलजं घण्टां सुरभाजनम् ॥
शूलं पाशसुदर्शने च दधतीं हस्तैः प्रसन्नाननां ।सेवे सैरिभमर्दिनीमिह महालक्ष्मीं सरोजस्थिताम् ॥ २ ॥

घण्टाशूलहलानि शङ्खमुसले चकं धनुः सायकं । हस्ताब्जैर्दधतीं घनान्त विलसच्छीतांशुतुल्यप्रभाम् ॥ गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महा- । पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥ ३ ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

श्री दुर्गां ध्यायामि ।

आवाहनम्

हिरण्यवर्णां हरिणीं सुवर्णरजतस्त्रजाम् ।
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

आवाहनं समर्पयामि । आवाहनार्थे पुष्पं समर्पयामि ।

आसनम्

ॐ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् ।
यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

आसनं समर्पयामि । आसनार्थे अक्षतान् समर्पयामि ।

पाद्यम्

ॐ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् ।
श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

पाद्यं समर्पयामि ।

अर्घ्यम्

ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रा ज्वलन्तीं तृप्तां तर्पयन्तीम् ।
पद्मे स्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

अर्घ्यं समर्पयामि ।

मधुपर्कम्

ॐ यन्मधुनो मधव्यं परमर्ठ० रूपमन्नाद्यम्।
तेनाहं मधुनो मधव्येन परमेण रूपेणानाद्येन
परमो मधव्योऽन्नादो ऽसानि ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

मधुपर्कं समर्पयामि ।

आचमनीयम्

ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम् ।
तां पद्मनीमीं शरणं महं प्रपद्ये अलक्ष्मीर्मे नश्यतां त्वां वृणोमि ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

आचमनीयं जलं समर्पयामि ।

स्नानम्

ॐ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

स्नानीयं जलं समर्पयामि ।

पञ्चामृतस्नानम्

ॐ पञ्च नद्यः सरस्वतीमपियन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी- महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

पञ्चामृतस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।

गन्धस्नानम्

ॐ त्वां गन्धर्वा अखनस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

गन्धोदकस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।

उद्वर्तनस्नानम्

ॐ अर्ठ० शुनाते अर्ठ० शुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदाय रसो ऽअच्युतः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

उद्वर्तनस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
आचमनीयं जलं समर्पयामि ।

महाभिषेकस्नानम्

आचार्य भगवती दुर्गा का महाभिषेक स्नान श्रीसूक्त के मन्त्रों द्वारा यजमान से करावें ।

शुद्धोदकस्नानम्

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः ।सश्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा ऽअवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

शुद्धोदकस्नानं समर्पयामि । शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।

वस्त्रम्

ॐ तस्माद्यज्ञात् सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दा० सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥

ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्ति मृद्धिं ददातु मे ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

वस्त्रद्वयं समर्पयामि । आचमनीयं जलं समर्पयामि ।

यज्ञोपवीतम्

तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता ऽअजावयः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।

सौभाग्यसूत्रम्

सौभाग्यसूत्रं वरदे! सुवर्णमणिसंयुतम् ।
कंठे बध्नामि देवेशि ! सौभाग्यं देहि मे सदा ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

सौभाग्यसूत्रं समर्पयामि ।

अक्षतान्

ॐ अक्षत्रमीमदन्त ह्यव प्रिया ऽअधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्रते हरी ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

अक्षतानं समर्पयामि ।

चन्दनम्

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली-महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

चन्दनं समर्पयामि ।

हरिद्राचूर्णम्

हरिद्रारञ्जिते देवि सुख-सौभाग्यदायिनि ।
तस्मात्त्वां पूजयाम्यत्र सुखं शान्तिं प्रयच्छ मे ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

हरिद्राचूर्णं समर्पयामि ।

कुङ्कुमम्

ॐ उस्रावेतं धूर्षाहौ युज्येथामनश्रू ऽअवीरणौ ब्रह्मचौदनौ । स्वस्ति यजमानस्य गहान् गच्छतम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

कुङ्कुमं समर्पयामि ।

सिन्दूरम्

ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा ऽअरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

सिन्दूरं समर्पयामि ।

कज्जलम्

ॐ व्वृत्त्रस्यासि कनीनकश्चक्षुर्द्द ऽअसि चक्षुम्मे देहि ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

कज्जलं समर्पयामि ।

दूर्वाम्

काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि ।
एवा नो दूर्व्वे प्प्रतनु सहस्त्रेण शतेन च ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

दूर्वाङ्कुरान् समर्पयामि ।

बिल्वपत्राणि

ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः ।
श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

बिल्वपत्राणि समर्पयामि ।

पुष्पमालाम्

ॐ श्रीश्च ते लक्ष्मीश्च पल्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् । इष्णन्निषाणाम्म ऽइषाण सर्वलोकं म ऽइषाण ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

पुष्पमालां समर्पयामि ।

नानापरिमलद्रव्यम्

अबीरं च गुलालं च हरिद्रादिसमन्वितम् ।
नानापरिमलं द्रव्यं गृहाण परमेश्वरि ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

नानापरिमलद्रव्याणि समर्पयामि ।

सौभाग्यद्रव्यम्

ॐ कर्दमेन प्रजा भूता मयि सम्भव कर्दम ।
श्रियं वासय मे कुले मातरं पद्ममालिनीम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली-महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

सौभाग्यद्रव्याणि समर्पयामि ।

सुगन्धिद्रव्यम्

त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् ।
उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीयमाऽमृतात् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

सुगन्धिद्रव्यं समर्पयामि ।

अङ्गपूजनम्

ॐ दुर्गायै नमः, पादौ पूजयामि।
ॐ महाकाल्यै नमः, गुल्फौ पूजयामि ।
ॐ मङ्गलायै नमः, जानुद्वयं पूजयामि।
ॐ कात्यायन्यै नमः, ऊरुद्वयं पूजयामि।
ॐ भद्रकाल्यै नमः, कटिं पूजयामि।
ॐ कमलवासिन्यै नमः, हृदयं नाभि पूजयामि।
ॐ शिवायै नमः, उदरं पूजयामि।
ॐ क्षमायै नमः, पूजयामि ।
ॐ कौमार्यै नमः, स्तनौ पूजयामि।
ॐ उमायै नमः, हस्तौ पूजयामि ।
ॐ महागौर्यै नमः, दक्षिणबाहुं पूजयामि।
ॐ वैष्णव्यै नमः, वामबाहुं पूजयामि।
ॐ रमायै नमः, स्कन्धौ पूजयामि।
ॐ स्कन्दमात्रे नमः, पूजयामि।
ॐ महिषासुरमार्दिन्यै नमः, नेत्रे पूजयामि।
ॐ सिंहवाहिन्यै नमः, मुखं पूजयामि।
ॐ माहेश्वर्यै नमः, शिरः पूजयामि।
ॐ कात्यायन्यै नमः, सर्वाङ्गं पूजयामि ।

धूपम्

ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामः ।
देवानामसि वह्नितमर्ठ० सस्त्रितमं पप्रितमं जुष्टतमं देवहूतमम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

धूपमाघ्रापयामि ।

दीपम्

ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्यः अजायत ।
श्रोत्राद् व्वायुश्च प्राणश्च मुखादग्निरजायत ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

दीपं दर्शयामि। (दोनों हाथों को धो ले)

नैवेद्यम्

ॐ नाभ्या आसीदन्तरिक्ष० शीर्णो द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्द्दिशः श्रोत्रात्तथा लोकाँ२ ॥ अकल्पयन् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

नैवेद्यं निवेदयामि ।

करोद्वर्त्तनम्

ॐ अर्ठ० शुनाते अर्ठ० शुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदाय रसो ऽअच्युतः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

करोद्वर्त्तनार्थे गन्धं समर्पयामि ।
हस्तप्रक्षालनार्थं जलं समर्पयामि ।

ऋतुफलम्

ॐ याः फलिनीर्या अफला अपुष्पायाश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वर्ठ० हसः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

ऋतुफलं समर्पयामि ।

ताम्बूलम्

ॐ उत स्मास्य द्रवतस्तुरण्यतः पर्णन्न वेरनुवाति प्रगर्द्धिनः ।
श्येनस्येव द्धजतो ऽअङ्कसम्परि दधिक्राव्णः सहोर्जा तरित्रतः स्वाहा ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

मुखवासार्थं ताम्बूलं (पूगफल-एला-लवङ्गसहितम्) समर्पयामि ।

दक्षिणाम्

ॐ हिरण्यगर्भः समवर्त्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम् ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

दक्षिणां समर्पयामि ।

नीराजनम्

ॐ इदर्ठ० हविः प्रजननं मे ऽअस्तु दशवीरर्ठ० सर्वगणर्ठ० स्वस्तये ।
आत्मसानि प्रजासनि पशुपनि लोकसन्यभवति ।
अग्रिः प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्त ॥ १ ॥

ॐ आ रात्रि पार्थिवर्ट० रजः पितुरप्रायि धामभिः ।
दिवः सदा०सि बृहती वि तिष्ठस ऽआ त्त्वे षं वर्त्तते तमः ॥ २ ॥

ॐ अग्निर्द्देवता व्वातो देवता सूर्य्यो देवता चन्द्रमा देवता ।
व्वसवो देवता रुद्रा देवताऽऽदित्या देवता मरुतो देवता ।
व्विश्वे देवा देवता बृहस्पतिर्देवता इन्द्रो देवता व्वरुणो देवता ॥ ३ ॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदा वसन्तं हृदयारविन्दे भवं भवानीसहितं नमामि ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

नीराजनं समर्पयामि ।

मन्त्रपुष्पाञ्जलिम्

ॐ यज्ञेन यज्ञमयन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥

ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ।
कुवेराय वैश्रवणाय महाराजाय नमः ॥

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठयं राज्यं
महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्, सार्वभौमः सार्वायुष
तदप्येष आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिति ॥

श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥

ॐ विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो बाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी-महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

मन्त्रपुष्पाञ्जलिं समर्पयामि ।

दुर्गा गायत्री

ॐ कात्यायन्यै च विद्महे कन्यकुमारी च धीमहि । तन्नो दुर्गिः प्रचोदयात् ॥

प्रदक्षिणाम्

पदे पदे या परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तां सर्वपापक्षयहेतुभूतां प्रदक्षिणां ते परितः करोमि ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

प्रदक्षिणां समर्पयामि ।

प्रणामः

दुर्गा शिवां शान्तिकरीं ब्रह्माणीं ब्रह्मणः प्रियाम् ।
सर्वलोकप्रणेत्रीं च प्रणमामि सदा शिवाम् ॥ १ ॥

नमस्ते देवदेवेशि ! नमस्ते ईप्सितप्रदे ।
नमस्ते जगतां धात्रि ! नमस्ते शङ्करप्रिये ॥ २ ॥

ॐ भूर्भुवः स्वः त्रिगुणात्मिकायै महाकाली महालक्ष्मी महासरस्वती-स्वरूपायै
जगदम्बायै दुर्गादेव्यै नमः,

प्रणामः समर्पयामि ।

स्तुतिः

ॐ शक्रादयः सुरगणा निहतेऽतिवीर्ये तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
तुष्टुवुः प्रणतिनम्रशिरोधरांसा वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ १ ॥

देव्या यया ततमिदं जगदात्मकशक्त्या निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमहर्षिपूज्यां भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ २ ॥

यस्याः प्रभावमतुलं भगवानन्तो ब्रह्मा हरश्च न हि वक्तुमलं बलं च ।
सा चण्डिकाऽखिलजगत्परिपालनाय नाशाय चाशुभभयस्य मतिं करोतु ॥ ३ ॥

॥ इति दुर्गापूजनम् ॥

0 Comments:

एक टिप्पणी भेजें

shastrianand701@gmail.com

फ़ॉलोअर