श्री गणपति पूजनम्
गणेश आवाहनम्
आचार्य निम्न मन्त्रों का उच्चारण करते हुए गणेश व अम्बा का आवाहन यजमान से करावें-
ॐ गणानां त्वा गणपतिर्व० हवामहे प्रियाणां त्वा प्रियपतिर्ठ० हवामहे निधीनां त्वां निधिपतिर्ठ० हवामहे वसो मम। आहमजानि गर्भ धमा त्वमजासि गर्भ धम् ॥
ॐ भूर्भुवः स्वः सिद्धिबुद्धिसहिताय श्रीमन्महागणपतये नमः । गणपतिमावाहयामि स्थापयामि ।
अम्बा आवाहनम्
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन । ससस्त्यश्वकः सुभद्रिकां कां पीलवासिनीम् ॥
ॐ भूर्भुवः स्वः गौर्ये नमः । गौरीमावाहयामि स्थापयामि
प्रतिष्ठापनम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा का प्रतिष्ठापन यजमान से करावें-
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञर्ठ० समिमं दधातु । विश्वेदेवास ऽइह मादयन्तामो ३ प्रतिष्ठ ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च । अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
ॐ भूर्भुवः स्वः गणेशाऽम्बिके सुप्रतिष्ठिते वरदे भवेताम्।
आसनम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से आसन प्रदान करावें-
ॐ पुरुष एवेद० सर्वं यद्भूतं यच्च भाव्यम् । उतामृतत्त्वस्येशानो यदन्नेनातिरोहति ॥
अलङ्कार समायुक्तं मुक्तामणि विभूषितम् । दिव्य सिंहासनं चारू प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः । आसनार्थे अक्षतान् समर्पयामि ।
पाद्यम्
आचार्य आगे दिए हुए मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से पाद्य अर्पित करावें-
गौरी सुत! नमस्तेऽस्तु शङ्कर प्रियकारक ।
भक्त्या पाद्यं मया दत्तं गृहाण प्रणतप्रिय ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पाद्यं समर्पयामि ।
अर्घ्यम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा के ऊपर यजमान से अर्घ्य चढ़वायें-
ॐ त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अर्घ्यं समर्पयामि ।
आचमनीयम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से आचमनीय जल प्रदान करवायें-
ॐ ततो विराडजायत विराजो अधि पूरुषः स जातो ।
अत्यरिच्यत अत्यरिच्यत पश्चाद् भूमिमथो पुरः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आचमनीयं जलं समर्पयामि ।
स्नानम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान द्वारा स्नान करावे-
ॐ तस्माद्यज्ञात् सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव! स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, स्नानं समर्पयामि ।
पञ्चामृतस्नानम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान द्वारा पञ्चामृत से स्नान करावें-
ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥
पञ्चामृतं मयाऽऽनीतं पयो दधि घृतं मधु ।
शर्करा च समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पञ्चामृत स्नानं समर्पयामि । पञ्चामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
शुद्धोदकस्नानम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान द्वारा शुद्ध जल से स्नान करावें-
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम् ।
तदिदं कल्पितं देव! स्नानार्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि । शुद्धोदक-स्नानान्ते आचमनीयं जलं समर्पयामि ।
वस्त्रम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से वस्त्र प्रदान करवायें-
ॐ युवा सुवासाः परिवीत आगात्सऽउश्रेयान्भवति जायमानः ।
तन्धीरासः कवयऽउन्नयन्ति स्वाद्ध्यो मनसा देवयन्तः ॥
सर्वभूषाधिके सौम्ये लोकलज्जा निवारिणे ।
ययोपपादिते तुभ्यं वाससी प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।
उपवस्त्रम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से उपवस्त्र प्रदान करवायें-
ॐ सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्वः ।
वासो अग्ने विश्वरूपर्ठ० संव्ययस्व विभावसो ॥
शीतवातोष्ण-संत्राणं लज्जायाः रक्षणं परम् ।
देहालङ्करणं वस्त्रमतः शान्ति प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं समर्पयामि । उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ।
यज्ञोपवीतम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए यजमान से गणेश व अम्बा के ऊपर यज्ञोपवीत चढ़वायें-
ॐ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्र्यं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेजः ॥
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम् ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि ।
गन्धम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से गन्ध प्रदान करवायें-
ॐ त्वां गन्धर्वा अखनस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान्यक्ष्मादमुच्यत ॥
गन्ध
कर्पूर-संयुक्तं कुङ्कुमेन सुवासितम् ।
विलेपनं सुरश्रेष्ठ! प्रीत्यर्थं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, गन्धं समर्पयामि ।
रक्तचन्दनम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से रक्तचन्दन प्रदान करवायें-
ॐ अर्ठ० शुनाते अर्ठ० शुः पृच्यतां परुषापरुः ।
गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, रक्तचन्दनं समर्पयामि ।
अक्षतान्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से अक्षत प्रदान करवायें-
अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वर ! ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, अक्षतान् समर्पयामि ।
पुष्पमालाम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से पुष्पमाला प्रदान करवायें-
ॐ
ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः ।
अश्वा ऽइव सजित्वरीर्वीरुधः पारयिष्णवः ॥
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ! ।
मयाऽऽहृतानि पुष्पाणि गृहाण विघ्नेश्वर ! ॥
तर्जन्यङ्गुष्ठयोगेन ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पुष्पमालां समर्पयामि ।
दूर्वाम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से दूर्वा चढ़वायें-
दूर्वाङ्कुशन् सुहरितानमृतान् मङ्गलप्रदान् ।
आनीतांस्त्व पूजार्थं गृहाण गणनायक ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, दूर्वाङ्कुरान् समर्पयामि ।
नानापरिमलद्रव्याणि
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से नानापरिमलद्रव्य चढ़वायें-
ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः ।
हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा०सं परि पातु विश्वतः ॥
नानापरिमलैर्द्रव्यैनिर्मितं चूर्णमुत्तमम् ।
अबीरनामकं चूर्णं गन्धं चारु प्रगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि ।
सिन्दूरम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से सिन्दूर चढ़वायें-
ॐ सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वा ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥
सिन्दूरं शोभनं रक्तं सौभाग्यं सुखवर्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, सिन्दूरं समर्पयामि ।
धूपम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से धूप दिखवायें-
ॐ धूरसि धूर्व धूर्वन्तं धूर्व तं योऽस्मान् धूर्वति तं धूर्वयं वयं धूर्वामः ।
देवानामसि वह्नितमर्ठ० सस्नितमं पप्रितमं जुष्टतमं देवहूतमम् ॥
वनस्पतिरसोद्भूतो गन्धाढ्यो गन्ध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् ॥
तर्जनीमूलयोरङ्गुष्ठयोगेन धूपमुद्रां प्रदर्श्य
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
धूपं समर्पयामि ।
दीपम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से दीप दिखवायें-
ॐ अग्निर्ज्योतिर्ज्योतिरग्निः स्वाहा सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहा ।
अग्निर्वर्चो ज्योतिर्वर्चः स्वाहा सूर्योवर्चो ज्योतिर्वर्चः स्वाहा ।
ज्योति: सूर्य: सूर्यो ज्योतिः स्वाहा ॥
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया ।
दीपं गृहाण देवेश ! त्रैलोक्यतिमिरापहम् ॥
भक्तया दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोऽस्तुते ॥
मध्यमाङ्गुष्ठयोगेन दीपमुद्रां प्रदर्श्य
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः
दीपं दर्शयामि । (दोनों हाथों को धोवे)
नैवेद्यम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से नैवेद्य प्रदान करवायें-
ॐ नाभ्या आसीदन्तरिक्षर्ठ० शीष्र्णो द्यौः समवर्त्तत ।
पद्भ्यां भूमिर्द्दिशः श्रोत्रात्तथालोकाँ२ अकल्पयन् ॥
शर्कराखण्डखाद्यानि दधि-क्षीर-घृतानि च ।
आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृह्यताम् ॥ २ ॥
अनामामूलयोरङ्गष्ठयोगेन नैवेद्यमुद्रां प्रदर्श्य
ग्रासमुद्राः प्रदर्शयेत् तद्यथा-
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
नैवेद्यं समर्पयामि ।
नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।
मध्ये पानीयं समर्पयामि ।
उत्तरापोशनं समर्पयामि ।
आचमनीयजलम्
आचार्य निम्न श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से आचमनीय जल प्रदान करवायें-
गणाधिप ! नमस्तुभ्यं गौरीसुत गजानन ! ।
गृहाण आचमनीयं त्वं सर्वसिद्धि प्रदायकम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, आचमनीयं जलं समर्पयामि ।
ताम्बूलम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से ताम्बूल प्रदान करवायें-
ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।
बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वर्ठ० हसः ॥
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम् ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखशुद्ध्यर्थं ताम्बूलपत्रं पूगीफलं च समर्पयामि ।
ऋतुफलानि
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से ऋतुफल प्रदान करवायें-
ॐ यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तो ऽस्यासीदाज्यं ग्रीष्मऽइध्मः शरद्धवि ॥
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, ऋतुफलानि समर्पयामि ।
दक्षिणाम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से दक्षिणा चढ़वायें-
ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्ति प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कृतायाः पूजायाः साद्गुण्यार्थे- द्रव्यदक्षिणां समर्पयामि ।
नीराजनम्
आचार्य निम्न मन्त्रों व श्लोक का उच्चारण करते हुए गणेश व अम्बा की यजमान से आरती करवायें-
ॐ आ रात्रि पार्थिवर्ट० रजः पितुरप्रायि धामभिः ।
दिवः सदार्ठ० सि बृहती वि तिष्ठस आ त्वे षं वर्तते तमः ॥ १ ॥
ॐ इदर्ठ० हविः प्रजननं मे अस्तु दशवीरर्ठ० सर्वगणर्ठ० स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसनयभयसनि ।
अग्निः प्रजां बहुलां मे करोत्वनं पयो रेतो अस्मासु धत्त ॥ २ ॥
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य मे वरदो भव ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, कर्पूरनीरजनं समर्पयामि ।
पुष्पांजलिम्
आचार्य आगे दिए हुए मन्त्रों व श्लोक का उच्चारण करते हुए गणेश व अम्बा को यजमान से पुष्पांजलि अर्पित करवायें-
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साङ्ख्याः सन्ति देवाः ॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यम्। कामेश्वरो वैश्रवणो ददातु।
कुबेराय वैश्रवणाय महाराजाय नमः ।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात्, सार्वभौमः
सार्वायुषान्तादापरार्धात्, पृथिव्यै समुद्रपर्यन्ताया
एकराडिति ॥
तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे ।
आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन् देव एकः ॥
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च।
पुष्पाञ्जलिर्मयादत्तो गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि ।
प्रदक्षिणाम्
आचार्य निम्न मन्त्र व श्लोक का उच्चारण करते हुए गणेश व अम्बा की यजमान से प्रदक्षिणा करवायें-
ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः ।
तेषार्ठ० सहस्रयोजनेऽव धन्वानि तन्मसि ॥
यानि कानि च पापानि ज्ञाताज्ञातकृतानि च ।
तानि सर्वाणि नश्यन्ति प्रदक्षिणापदे पदे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, प्रदक्षिणां समर्पयामि ।
विशेषार्घ्यम्
आचार्य निम्न श्लोकों का उच्चारण करते हुए गणेश व अम्बा को यजमान से विशेष अर्घ्य प्रदान करवायें-
रक्ष रक्ष गणाध्यक्ष ! रक्ष त्रैलोक्य रक्षक ।
भक्तानां भयं कर्ता त्राता भव भवार्णवात् ॥ १ ॥
द्वैमातुर कृपासिन्धो षाण्मातुराग्रज प्रभो ।
वरदस्त्वं वरं देहि वाञ्छितं वाञ्छितार्थद ।
अनेन सफलार्घेण फलदोऽस्तु वरदोऽस्तु ।
निर्विध्नोऽस्तु गृहप्रदोऽस्तु सदा मम् ॥ २ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, विशेषार्घ्यं समर्पयामि ।
प्रार्थना
आचार्य निम्न श्लोकों का उच्चारण करते हुए गणेश व अम्बा की यजमान से प्रार्थना करवायें-
ॐ विघ्नेश्वराय वरदाय सुरप्रियाय ।
लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञ विभूषिताय ।
गौरीसुताय गणनाथ नमो नमस्ते ॥ १ ॥
भक्तार्तिनाशनपराय गणेश्वराय ।
सर्वेश्वराय शुभदाय सुरेश्वराय ।
विद्याधराय विकटाय च वामनाय ।
भक्तप्रसन्नवरदाय नमो नमस्ते ॥ २ ॥
नमस्ते ब्रह्मरूपाय विष्णुरूपाय ते नमः ।
नमस्ते रुद्ररूपाय करिरूपाय ते नमः ॥ ३ ॥
विश्वरूपस्वरूपाय नमस्ते ब्रह्मचारिणे ।
भक्तप्रियाय देवाय नमस्तुभ्यं विनायक ! ॥ ४ ॥
लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ५ ॥
त्वां विघ्नशत्रुदलनेति च सुन्दरेति
भक्तप्रियेति सुखदेति फलप्रदेति ।
विद्याप्रदेत्यघहरेति च ये स्तुवन्ति
तेभ्यो गणेश! वरदो भव नित्यमेव ॥ ६ ॥
इति गणेशाम्बिकयोः पूजनं कृत्वा पूर्ववदर्घपात्रे गन्धादि कृत्वा -
ॐ रूपं देहि जयं देहि सौभाग्यं देहि देवि मे ।
पुत्रान् देहि धनं देहि सर्वान् कामांश्च देहि मे ॥
'ॐ अम्बिकायै नमः' इति विशेषार्घ्यं समर्पयामि । 'अनया पूजया गणेशाम्बिके प्रीयेतां न मम' इति जलं प्रक्षिपेत् । 'आचरितगणेशाम्बिका-पूजनविधौ यन्न्यूनातिरिक्तं तत्परिपूर्णमस्तु ।'


shastrianand701@gmail.com