Pages

श्री विष्णु पूजन विधि और मंत्र

॥ विष्णुपूजनम् ॥

विनियोगः–

सहस्रशीर्षेत्यादिषोडशर्चस्य पुरुषसूक्तस्य नारायण ऋषिः आद्यानां पञ्चदशानामनुष्टुप्छन्दः यज्ञेन यज्ञमित्यस्य त्रिष्टुप्छन्दः जगद्बीजं नारायणपुरुषो देवता, न्यासे हवने च विनियोगः ।


ध्यानम्

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ १ ॥

सशंखचक्रं सकिरीटकुण्डलं सपीतवस्त्रं सरसीरुहेक्षणम् ।
सहारवक्षस्थलकौस्तुभश्रियं नमामि विष्णुं शिरसा चतुर्भुजम् ॥ २ ॥

श्रीभगवते विष्णवे नमः, ध्यानं समर्पयामि ।


आवाहनम्

ॐ सहस्त्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमिर्ठ० सर्वतस्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥

श्रीभगवते विष्णवे नमः, आवाहनं समर्पयामि । आवाहनार्थे पुष्पं समर्पयामि ।


आसनम्

ॐ पुरुष एवेर्द० सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥

श्रीभगवते विष्णवे नमः, आसनं समर्पयामि । आसनार्थे अक्षतान् समर्पयामि ।


पाद्यम्

ॐ एतावानस्य महिमातो ज्यायाँश्च पूरुषः ।
पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

श्रीभगवते विष्णवे नमः, पाद्यं समर्पयामि ।


अर्घ्यम्

ॐ त्रिपादूर्ध्वऽ उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ्व्यक्रामत्साशनानशनेऽ अभि ॥

श्रीभगवते विष्णवे नमः, अर्घ्यं समर्पयामि ।


आचमनीयम्

ॐ ततो विराडजायत विराजो विराजो अधि ।
पूरुषः स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥

श्रीभगवते विष्णवे नमः, आचमनीयं जलं समर्पयामि ।


स्नानम्

ॐ तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम् ।
पशूंस्ताँश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥

श्रीभगवते विष्णवे नमः, स्नानीयं जलं समर्पयामि ।


पञ्चामृतस्नानम्

ॐ पञ्च नद्यः सरस्वतीमपियन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशे ऽभवत्सरित् ॥

श्रीभगवते विष्णवे नमः, पञ्चामृतस्नानं समर्पयामि ।
स्नानान्ते शुद्धोदक जलं समर्पयामि ।


गन्धोदकस्नानम्

गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ।
ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ॥

श्रीभगवते विष्णवे नमः, गन्धोदकस्नानं समर्पयामि ।


उद्वर्तनस्नानम्

ॐ अठ० शुना ते अठ० शुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदाय रसो अच्युतः ॥

श्रीभगवते विष्णवे नमः, उद्वर्तनस्नानं समर्पयामि ॥


महाभिषेकस्नानम्

ॐ इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम्।
समूढमस्य पार्ठ० सुरे स्वाहा ॥

ॐ विष्णोर्मुकं वीर्याणि प्रवोचं यः पार्थिवानि विममे रजार्ठ०सि ।
यो अस्कभायदुत्तर्ठ० सधस्थं विचक्रमाणस्त्रेधोरुगायो विष्णवे त्वा ॥

ॐ तद्विष्णोः परमं पदर्ठ० सदा पश्यन्ति सूरयः ।
दिवीव चक्षु- राततम् ॥

ॐ तद्विप्रासो विपन्यवो जागृवार्ठ०सः समिन्धते ।
विष्णोर्यत्परमं पदम् ॥


ॐ सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।
स भूमि० सर्वतः स्पृत्वाऽत्यतिष्ठद्दशाङ्गुलम् ॥ १ ॥

पुरुष एवेदर्ठ० सर्वं यद्भूतं यच्च भाव्यम् ।
उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥ २ ॥

एतावानस्य महिमातो ज्यायांश्च पूरुषः ।
पादो ऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥ ३ ॥

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।
ततो विष्वङ् व्यक्रामत्साशनानशने अभि ॥ ४ ॥

ततो विराडजायत विराजो अधि पूरुषः ।
स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥ ५ ॥

तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यम् ।
पशूंस्तांश्चक्रे वायव्यानारण्या ग्राम्याश्च ये ॥ ६ ॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।
छन्दा०सि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥ ७ ॥

तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माञ्जाता अजावयः ॥ ८ ॥

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।
तेन देवा अयजन्त साध्या ऋषयश्च ये ॥ ९ ॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत्किं बाहू किमूरू पादा उच्येते ॥ १० ॥

ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याठ० शूद्रोऽ अजायत ॥ ११ ॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥ १२ ॥

नाभ्या आसीदन्तरिक्ष० शीष्र्णो द्यौः समवर्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ २ ॥ अकल्पयन् ॥ १३ ॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शब्द्धविः ॥ १४ ॥

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।
देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुम् ॥ १५ ॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥ १६ ॥


शुद्धोदकस्नानम्

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्श्विनाः श्येतः श्येताक्षोऽरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्सा रोद्रा नभोरूपाः पार्जन्याः ॥

श्रीभगवते विष्णवे नमः, शुद्धोदकस्नानं समर्पयामि । शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि ।


वस्त्रम्

ॐ तस्माद्यज्ञात्सर्वहुतऽ ऋचः सामानि जज्ञिरे ।
छन्दार्ठ० सि जजिरे तस्माद्यजुस्तस्मादजायत ॥

श्रीभगवते विष्णवे namः, वस्त्रं समर्पयामि । वस्त्रान्ते आचमनीयं जलं समर्पयामि ।


यज्ञोपवीतम्

ॐ तस्मादश्वा अजायन्त ये के चोभयादतः ।
गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥

श्रीभगवते विष्णवे namः, यज्ञोपवीतं समर्पयामि । यज्ञोपवीतान्ते आचमनीय-जलं समर्पयामि ।


चन्दनम्

ॐ अर्ठ० शुनाते अर्ठ० शुः पृच्यतां परुषा परुः ।
गन्धस्ते सोममवतु मदायरसो ऽअच्युतः ॥

श्रीभगवते विष्णवे namः, चन्दनं समर्पयामि ।


गन्धम्

ॐ त्वां गन्धर्वा अखनस्त्वामिन्द्रस्त्वां बृहस्पतिः ।
त्वामोषधे सोमो राजा विद्वान्न्यक्ष्मादमुच्यत ॥

श्रीभगवते विष्णवे namः, गन्धं समर्पयामि ।


अक्षतान्

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥

श्रीभगवते विष्णवे नमः, अक्षतान् समर्पयामि ।


विविध पुष्पम्

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।
मुखं किमस्यासीत्किबाहू किमूरू पादाऽ उच्येते ॥

श्रीभगवते विष्णवे नमः, विविध पुष्पं समर्पयामि ।


तुलसीदलम्

ॐ इदं विष्णु विचक्रमे त्रेधा निदधेपद्म ।
समूढमस्य पार्ठ० सुरे स्वाहा ॥

श्रीभगवते विष्णवे नमः, तुलसीदलं समर्पयामि ।


अंगपूजनम्

ॐ सत्यपरब्रह्मणे नमः पादौ पूजयामि ।
ॐ सङ्कर्षणाय नमः गुल्फौ पूजयामि ।
ॐ कालात्मने नमः जानुनी पूजयामि ।
ॐ विश्वरूपाय नमः जंघे पूजयामि ।
ॐ विश्वस्मै नमः कटिं पूजयामि ।
ॐ विष्णुरूपधृषे नमः मेढूं पूजयामि ।
ॐ पद्मनाभाय नमः नाभि पूजयामि ।
ॐ परमात्मने नमः हृदयं पूजयामि ।
ॐ वैकुण्ठाय नमः कण्ठं पूजयामि ।
ॐ सर्वास्त्रधारिणे नमः बाहूं पूजयामि ।
ॐ बाचस्पतये नमः मुखं पूजयामि ।
ॐ हरये नमः जिह्वां पूजयामि ।
ॐ दामोदराय नमः दन्तान् पूजयामि ।
ॐ सहस्राक्षाय नमः नेत्रे पूजयामि ।
ॐ सर्वात्मने नमः शिरः पूजयामि ।
ॐ श्रीलक्ष्मीसहितनारायणाय नमः सर्वाङ्गं पूजयामि ।


धूपम्

ॐ ब्राह्मणोऽस्य मुखमासीद्वाहू राजन्यः कृतः ।
ऊरू तदस्य यद्वैश्यः पद्भ्याठ० शूद्रोऽ अजायत ॥

श्रीभगवते विष्णवे नमः, धूपं माघ्रापयामि ।


दीपम्

ॐ चन्द्रमा मनसो जातश्चक्षोः सूर्योऽ अजायत ।
श्रोत्राद्वायुश्च प्राणश्च मुखादग्निरजायत ॥

श्रीभगवते विष्णवे नमः, दीपं दर्शयामि ।
(दोनों हाथों को धो ले)


नैवेद्यम्

ॐ नाभ्याआसीदन्तरिक्षं शीष्ण द्यौ: समवर्त्तत ।
पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँऽअकल्पयन् ॥

श्रीभगवते विष्णवे नमः, नैवेद्यं निवेदयामि ।
नैवेद्यान्ते आचमनीयं जलं सम० ।


ताम्बूलम्

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।
वसन्तोऽस्यासीदाज्यं ग्रीष्म इध्मः शद्धविः ॥

श्रीभगवते विष्णवे नमः, ताम्बूलं समर्पयामि ।


दक्षिणाम्

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

श्रीभगवते विष्णवे नमः, दक्षिणां समर्पयामि ।


नीराजनम्

ॐ इद० हविः प्रजननं मे ऽअस्तु दशवीरठ० सर्वगणठ० स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि ।
अग्निः प्रजां बहुलां मे करोत्त्वन्नं पयो रेतो ऽअस्मासु धत्त ।
आ रात्रि पार्थिवर्ट० रजः पितुरप्रायि धामभिः ।
दिवः सदार्ठ०सि बृहती वितिष्ठस ऽआ त्त्वेषं वर्त्तते तमः ॥

कर्पूरगौरं करुणावतारं संसारसारं भुजगेन्द्रहारम् ।
सदावसन्तं हृदयारविन्दे भवं भवानी सहितं नमामि ॥

श्रीभगवते विष्णवे नमः, नीराजनं समर्पयामि ।


मंत्रपुष्पाञ्जलिम्

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त यत्र पूर्वे साद्ध्याः सन्ति देवाः ॥

ॐ राजाधिराजाय प्रसह्यसाहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥
कुवेराय वैश्रवणाय महाराजाय नमः ॥

ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समन्तपर्यायी स्यात् सार्वभौमः सार्वायुषान्तादापरार्धात् पृथिव्यै समुद्रपर्यन्ताया एकराडिती ।
तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ॥

ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।
सं बाहुभ्यां धमति सम्पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥

नाना सुगन्धि पुष्पाणि यथा कालोद्भवानि च ।
पुष्पाञ्जलिर्मया दत्तो गृहाण परमेश्वर ॥

श्रीभगवते विष्णवे नमः, मंत्रपुष्पाञ्जलिं समर्पयामि ।


विष्णुगायत्री

ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥

श्रीभगवते विष्णवे नमः, मन्त्रपुष्पाञ्जलिं समर्पयामि ।


प्रदक्षिणाम्

ॐ सप्तास्यासन्परिधयस्त्रिः सप्तसमिधः कृताः ।
देवा यद्यज्ञं तन्वानाऽअबघ्नन्पुरुषं पशुम् ॥
यानिकानि च पापानि जन्मान्तर कृतानि च ।
तानि तानि प्रणष्यन्ति प्रदक्षिण पदे पदे ॥

श्रीभगवते विष्णवे नमः, प्रदक्षिणां समर्पयामि ।


स्तुतिः

नमस्ते देवतानाथ नमस्ते गरुडध्वजः ।
शङ्खचक्रगदापाणे वासुदेव नमोऽस्तु ते ॥
नमस्ते निर्गुणानन्त अप्रतर्क्याय वेधसे ।
ज्ञानाज्ञान निरालम्ब सर्वालम्ब नमोऽस्तु ते ॥

॥ इति विष्णुपूजनम् ॥

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

shastrianand701@gmail.com