गौरी गणेश पूजन विधि, सामग्री और महत्व – संपूर्ण जानकारी हिंदी में


मङ्गलाचरणम् 

मङ्गलम् भगवान् विष्णु मङ्गलम् गरुडध्वजः। मङ्गलम् पुण्डरीकाक्षो मङ्गलायतनो हरिः ।।

मङ्गला भगवती देवी मङ्गला सिंघवाहिनी । मङ्गला च जगद्धात्री मङ्गलायै नमो नमः ।।

मङ्गलम् कौशलेंद्राय महनीय गुणाब्धये । चक्रवर्ती तनूजाय सार्व भौमाय मङ्गलम् ।।

मङ्गलम् लक्ष्मण भ्राता मङ्गलम् जानकीश्वरः । मङ्गलम् शुभदो रामः मङ्गलम् हनुमत् प्रियः ।।

मङ्गलम् परमानन्दो मङ्गलम् परमेश्वरः । मङ्गलम् श्री पद्म नाभो मङ्गलम् पद्मलोचनः ।।

मङ्गलम् करूणा सिंधुः मङ्गलम् विश्वपालकः । मङ्गलम् सच्चिदानन्दो मङ्गलम् जगदीश्वरः ।।

मङ्गलम् श्री रङ्गनाथो मङ्गलम् पुरूषोत्तमः । मङ्गलम् कमलाकान्तो मङ्गलम् भक्तवत्सलः ।।

पवित्रिकरणम् 

ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।  यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यान्तरः शुचिः ।।


त्रिराचमनम् 


ॐ केशवाय नमः ! ॐ नारायणाय नमः ! ॐ माधवाय नमः ! ।।

ॐ रामाय नमः ! ॐ रामचन्द्राय नमः ! ॐ रामभद्राय नमः ! ।।


आसनशुद्धिः 


ॐ पृथ्वीति मन्त्रस्य मेरूपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ।।

ॐ पृथ्वी त्वया घृता लोका देवि त्वं विष्णुना घृता ! त्वं च धारय मां देवि पवित्रं कुरू चासनम् ।।


पवित्रीधारणम् 


ॐ पवित्रेस्थो व्वैष्णव्यौ सवितुर्वः प्प्रसऽव ! उत्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः !! तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ।।


शिखाबन्धनम् 


ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते ! तिष्ठ देवि शिखा मध्ये तेजोवृद्धि कुरूष्व में ।


ग्रन्थिबन्धनम् 


ॐ यदाबन्धनन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्य मां तन्नऽआबध्नामि शत् शारदाया युष्मान् जर दृष्टिर्यथा स ।।


प्राणायामः 


ॐ नमः शम्भवाय च  मयोभवाय च नमः शङ्कराय च ! मयस्कराय च नमः शिवाय च शिवतराय च ।।


दिग् रक्षण 


ॐ अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिताः !! ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया ! अपक्रामन्तु भूतानां पिशाचाः सर्वतो दिशः ! सर्वेषामविरोधेन् पूजाकर्म समारभेत् ।। 


पूर्वे रक्षतु वाराह आग्नेय्यां गरूडध्वजः दक्षिणे पद्मनाभस्तु नैऋृत्यां मधुसूदनः ! पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दनः उत्तरे श्रीपति रक्षेदेशान्यां तु महेश्वरः ! ऊर्ध्वं गोवर्धनो रक्षेद् ह्यघ्नो नन्तस्तथैव च ! एवं दश दिशो रक्षेद् वासुदेवो जनार्दनः ।।


स्वस्तिवाचनम् 


आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितासउद्भिदः ! देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे !! देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम् ! देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तुजीवसे !! तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ! अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम् !! तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम् ! पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये !! स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः ! स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु !!पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः ! अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह !! भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ! स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः !! शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ! पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः !! अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ! विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् !

 द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ! वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः शान्तिरेव शान्तिः सा मा शान्तिरेधि !! यतो यतः समीहसे ततो नो अभयं कुरु ! शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः !! सुशान्तिर्भवतु !!

 

ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव !!


गणपति आवाहनम् 


ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम्, ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत आ नः शृण्वन्नूतिभिःसीद सादनम्"


गणपति ध्यानम् 

ॐ दधानं भृङगालीमनिशममले गंडयुगले । 

ददानं सर्वार्थान् निज चरण सेवा सुकृतिने ।।

दयाधारं सारं निखिल निगमानामनुदिनम् । 

गजास्यंस्मेरास्यं तमिह कलये चित्तनिलये ।।

एक टिप्पणी भेजें

0 टिप्पणियाँ
* Please Don't Spam Here. All the Comments are Reviewed by Admin.