शिव पूजन विधि और मंत्र

AnandShastri
0

शिव पूजनम्

॥ शिवपूजनम् ॥

षडङ्गन्यासः

विनियोगः
मनो जूतिरित्यस्य आङ्गिरसो बृहस्पतिऋषिः, यजुश्छन्दः, विश्वेदेवा देवता हृदये न्यासे विनियोगः ।

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्य्यज्ञमिमं तनोत्वरिष्टं व्यज्ञर्ठ० समिमं दधातु। विश्वेदेवास इह मादयन्तामों ३ प्रतिष्ठ । हृदयाय नमः ॥ १ ॥


विनियोगः
अबोध्यग्निरित्यस्य बुधगविष्ठिरावृषी त्रिष्टुप्छन्दः, वैश्वानरोग्निर्देवता शिरसि न्यासे विनियोगः ।

ॐ अबोद्ध्यग्निः समिधा जनानां प्रतिधेनुमिवायतीमुषासम्। यह्वा इव प्रवयामुज्जिहानाः प्रभानवः सिस्रते नाकमच्छ॥ शिरसे स्वाहा ॥ २ ॥


विनियोगः
मूर्धानमित्यस्य भरद्वाजऋषिस्त्रिष्टुप्छन्दः, वैश्वानरोग्निर्देवता, शिखायां न्यासे विनियोगः ।

ॐ मूर्द्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निम् । कवि० सम्राजमतिथिं जनानामासन्ना पात्रं जनयन्त देवाः ॥ शिखायै वषट् ॥ ३ ॥


विनियोगः
मर्माणि त इत्यस्य विवस्वान् ऋषिः, त्रिष्टुप्छन्दः, लिङ्गोक्ता देवता, कवचन्यासे विनियोगः ।

ॐ मर्माणि ते वर्मणा छादयामि सोमस्त्वा राजाऽमृतेनानुवस्ताम् । उरोर्वरीयो वरुणस्ते कृणोतु जयन्तं त्वानु देवा मदन्तु ॥ कवचाय हुम् ॥ ४ ॥


विनियोगः
विश्वतश्चक्षुरित्यस्य विश्वकर्मा भौवनऋषिः, त्रिष्टुप्छन्दः, विश्वकर्मा देवता, नेत्रन्यासे विनियोगः ।

ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्मात्। सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्देव एकः ॥ नेत्रत्रयाय वौषट् ॥ ५ ॥


विनियोगः
मानस्तोक इत्यस्य कुत्सऋषिः, जगतीछन्दः, एको रुद्रो देवता, अस्त्रन्यासे विनियोगः ।

ॐ मा नस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥ अस्त्राय फट् ॥ ६ ॥


ध्यानम्

ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं ।
रत्नाकल्पोज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् ।
पद्मासीनं समन्तात्स्तुतममरगणैर्व्याघ्रकृत्तिं वसानं ।
विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥

श्रीभगवते साम्बसदाशिवाय नमः । ध्यानं समर्पयामि ।


आवाहनम्

ॐ नमः शंभवाय च मयोभवाय च नमः शङ्कराय च ।
मयस्कराय च नमः शिवाय च शिवतराय च ॥

श्रीभगवते साम्बसदाशिवाय नमः । साम्बसदाशिवमावाहयामि स्थापयामि ।


आसनम्

ॐ या ते रुद्रशिवा तनूरघोराऽपापकाशिनी ।
तया नस्तन्वा शन्तमया गिरिशन्ताभिचाकशीहि ॥

श्रीभगवते साम्बसदाशिवाय नमः । आसनं समर्पयामि । आसनार्थे अक्षतान् समर्पयामि ।


पाद्यम्

ॐ यामिषु गिरिशन्त हस्ते बिभर्ष्यस्तवे ।
शिवां गिरित्र तां कुरु मा हि० सीः पुरुषं जगत् ॥

श्रीभगवते साम्बसदाशिवाय नमः । पादयो पाद्यं समर्पयामि ।


अर्घ्यम्

ॐ शिवेन वचसा त्वा गिरिशाऽच्छावदामसि ।
यथा नः सर्वमिज्जगदयक्ष्म० सुमना असत् ॥

श्रीभगवते साम्बसदाशिवाय नमः । अर्घ्यं समर्पयामि ।


स्नानम्

असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।
ये चैनर्ठ० रुद्रा अभितो दिक्षु श्रिताः सहस्त्रशोऽवैषार्ट० हेड ऽइमहे ॥

श्रीभगवते साम्बसदाशिवाय नमः । स्नानीयं जलं समर्पयामि ।


पंचामृत स्नानम्

ॐ पञ्च नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरस्वती तु पञ्चधा सो देशेऽभवत्सरित् ॥

श्रीभगवते साम्बसदाशिवाय नमः । पञ्चामृतस्नानं समर्पयामि । स्नानान्ते शु० ।


महाभिषेकस्नानम्

ॐ नमस्ते रुद्र मन्यव उतो त इषवे नमः । बाहुभ्यामुत ते नमः ॥ १ ॥

या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तन्वा शन्तमया गिरिशन्ताभि- चाकशीहि ॥ २ ॥

यामिषुं गिरिशन्त हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र तां कुरु मा हिठे०सीः पुरुषं जगत् ॥ ३ ॥

शिवेन वचसा त्वा गिरिशाऽच्छावदामसि । यथा नः सर्वमिज्जगदयक्ष्म० सुमना असत् ॥ ४ ॥

अध्यवोचदधिवक्ता प्रथमो दैव्यो भिषक् । अहीर्ठ०श्च सर्वान् जम्भयन् सर्वाश्च यातुधान्योऽ- धराची: परासुव ॥ ५ ॥

असौ यस्ताम्रो अरुण उत बभ्रुः सुमङ्गलः । ये चैनर्ठ ० रुद्रा अभितो दिक्षु श्रिताः सहस्रशोऽवैषार्ट० हेड ईमहे ॥ ६ ॥

असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥ ७ ॥

नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीदुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥ ८ ॥

प्रमुञ्च धन्वनस्त्वमुभयोरार्योर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥ ९ ॥

विज्यं धनुः कपर्दिनो विशल्यो बाणवाँ२ ॥ उत। अनेशन्नस्य या इषव आभुरस्य निषङ्गधिः ॥ १० ॥

या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयास्मान्विश्वतस्त्वमयक्ष्मया परिभुज ॥ ११ ॥

परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ १२ ॥

अवतत्य धनुष्टु० सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १३ ॥

नमस्त आयुधायानातताय धृष्णवे । उभाभ्या- मुत ते नमो बाहुभ्यां तव धन्वने ॥ १४ ॥

मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मान उक्षितम् । मा नो वधीः पितरं मोत मातरं मा नः प्रियास्तन्वो रुद्र रीरिषः ॥ १५ ॥

माके तनये मा न आयुषि मा नो गोषुमा नो अश्वेषु रीरिषः । मा नो वीरान् रुद्र भामिनो वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥ १६ ॥


शुद्धोदक स्नानम्

ॐ शुद्धवालः सर्वशुद्धवालो मणिवालस्त आश्विनाः श्येतः श्येताक्षो- उरुणस्ते रुद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपाः पार्जन्याः ॥

श्रीभगवते साम्बसदाशिवाय नमः । शुद्धोदकस्त्रानं समर्पयामि। स्नानान्ते शु० ।


वस्त्रमुपवस्त्रं च

ॐ असौ योऽवसर्पति नीलग्रीवो विलोहितः ।
उतैनं गोपा अदृश्रन्नदृश्रन्नुदहार्यः स दृष्टो मृडयाति नः ॥

श्रीभगवते साम्बसदाशिवाय नमः ।
वस्त्रमुपवस्त्रं च समर्पयामि । वस्त्रोपवस्त्रान्ते आचमनिय समर्पयामि ।


यज्ञोपवीतम्

ॐ नमोऽस्तु नीलग्रीवाय सहस्त्राक्षाय मीदुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरं नमः ॥

श्रीभगवते साम्बसदाशिवाय नमः । यज्ञोपवीतं समर्पयामि । यज्ञोपवितान्ते आचमनीय जलं समर्पयामि ।


गन्धम्

ॐ प्रमुञ्च धन्वनस्त्वमुभयोरार्य्योर्ज्याम् ।
याश्च ते हस्त इषवः परा ता भगवो वप ॥

श्रीभगवते साम्बसदाशिवाय नमः । कनिष्ठामूलगताङ्गुष्ठयोगेन गन्धमुद्रां प्रदर्श्य अनामिकया गन्धानुलेपनं समर्पयामि ।


भस्मम्

ॐ प्रसद्य भस्मना योनिमपश्च पृथिवीमग्ने । सर्व० सृज्यमातृभिष्टुञ्ज्योतिष्मान्पुनरासदः ॥

श्रीभगवते साम्बसदाशिवाय नमः । भस्मं समर्पयामि ।


अक्षतान्

ॐ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठ्या मती योजा न्विन्द्रते हरी ॥

श्रीभगवते साम्बसदाशिवाय नमः । अक्षतान् समर्पयामि ।


पुष्पमालाम्

ॐ ओषधीः प्रतिमोदध्वं पुष्पवतीः प्रसूवरीः । अश्वा ऽइव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥

श्रीभगवते साम्बसदाशिवाय नमः । तर्जन्यङ्गुष्ठयोगेन पुष्पमालां समर्पयामि ।


बिल्वपत्राणि

ॐ नमो बिल्मिने च कवचिने च नमो वर्मिणे च वरूथिने च नमः ।
श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय चाहनन्याय च ॥

श्रीभगवते साम्बसदाशिवाय नमः । बिल्पत्राणि समर्पयामि ।


दूर्वाम्

ॐ काण्डात्काण्डात्प्ररोहन्ती परुषः परुषस्परि । एवानो दूर्वे प्रतनु सहस्त्रेण शतेन च ॥

श्रीभगवते साम्बसदाशिवाय नमः। दूर्वाङ्करान् समर्पयामि।


शमीपत्रम्

ॐ अग्नेस्तनूरसि वाचो विसर्जनं देववीतये त्वा गृह्णामि बृहद्ग्रावासि वानस्पत्यः स इदं देवेभ्यो हविः शमीष्व सुशमि शमीष्व । हविष्कृदेहि हविष्कृदेहि ॥

श्रीभगवते साम्बसदाशिवाय नमः । शमीपत्राणि समर्पयामि ।


तुलसीमञ्जरीम्

ॐ शिवो भव प्रजाभ्यो मानुषीभ्यस्त्वमङ्गिरः । मा द्यावापृथिवी अभिशोचीर्मान्तरिक्षं मा वनस्पतीन् ॥

श्रीभगवते साम्बसदाशिवाय नमः । तुलसीमञ्जरीं समर्पयामि ।


नानापरिमलद्रव्यम्

ॐ अहिरिव भोगैः पर्येति बाहुं ज्याया हेतिं परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमा०सं परि पातु विश्वतः ॥

श्रीभगवते साम्बसदाशिवाय नमः । नानापरिमलद्रव्याणि समर्पयामि ।


सुगन्धितद्रव्यम्

ॐ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्द्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात् ॥
ॐ त्र्यम्बकं यजामहे सुगन्धिं पतिवेदनम् । उर्वारुकमिव बन्धनादितो मुक्षीय मामुतः ॥

श्रीभगवते साम्बसदाशिवाय नमः । सुगन्धित द्रव्यं समर्पयामि ।


शिवअङ्गपूजनम्

१. ॐ ईशानाय नमः पादौ पूजयामि
२. ॐ शङ्कराय नमः जङ्घे पूजयामि
३. ॐ शिवाय नमः जानुनी पूजयामि
४. ॐ शूलपाणये नमः गुल्फौ पूजयामि
५. ॐ स्वयम्भुवे नमः गुह्यं पूजयामि
६. ॐ महादेवाय नमः नाभि पूजयामि
७. ॐ विश्वकर्त्रे नमः उदरं पूजयामि
८. ॐ सर्वतोमुखाय नमः नेत्रयोः पूजयामि
९. ॐ नागभूषणाय नमः शिरसि पूजयामि
१०. ॐ देवाधिदेवाय नमः सर्वाङ्गं पूजयामि ।


धूपम्

ॐ या ते हेतिर्मीढुष्टमहस्ते बभूव ते धनुः । तयास्मान्विश्वतस्त्वमयक्ष्यया परिभुज ॥

श्रीभगवते साम्बसदाशिवाय नमः । तर्जनीमूलरङ्गुष्ठयोगेन धूपमुद्रां प्रदर्श्य धूपमाघ्रापयामि ।


दीपम्

ॐ परि ते धन्वनो हेतिरस्मान्वृणक्तु विश्वतः । अथो यऽ इषुधिस्तवारेऽ अस्मिन्निधेहि तम् ॥

श्रीभगवते साम्बसदाशिवाय नमः । मध्यमाङ्गुष्ठयोगेन दीपमुद्रां प्रदर्श्य प्रत्यक्षदीपं दर्शयामि हस्तप्रक्षालनम्।


नैवेद्यम्

ॐ अवतत्त्य धनुष्टु० सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥

श्रीभगवते साम्बसदाशिवाय नमः । नैवेद्यं निवेदयामि ।

यजमान अनामिका अंगुली के मूल भाग और अंगुष्ठ के योग से बनी मुद्रा दिखाकर ग्रास मुद्रा इस प्रकार प्रदर्शित करे – ॐ प्राणाय स्वाहा कहे। अंगुष्ठ अनामिका और मध्यमा मिलाकर ॐ अपानाय स्वाहा कहे । अंगुष्ठ अनामिका और कनिष्ठा मिलाकर – ॐ व्यानाय स्वाहा कहे। कनिष्ठा तर्जनी और अंगुष्ठ मिलाकर – ॐ समानाय स्वाहा कहे । अंगुष्ठ और सब अंगुलियों को मिलाकर – ॐ उदानाय स्वाहा कहे ।

यजमान दुपट्टे के द्वारा शिवजी के आगे पर्दा करके गोदोहन काल के उपरान्त शिवजी के स्वरूप का ध्यान करें। उस समय पूजन स्थल पर उपस्थित सभी ब्राह्मण रौद्राध्याय का पाठ करें। पश्चात् – मध्ये पानीयं समर्पयामि, उत्तरापोशनं समर्पयामि। हाथ धोने के लिए जल समर्पित कहकर तीन बार जल छोड़े ।


ऋतुफलम्

ॐ याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः । बृहस्पतिप्रसूतास्तानो मुञ्चन्त्वर्ठ० हसः ॥

श्रीभगवते साम्बसदाशिवाय नमः । ऋतुफलानि समर्पयामि ।


धत्तूरफलम्

ॐ कार्षिरसि समुद्रस्य त्वाक्षित्या उन्नयामि । समापो अद्भिररम्मत समोषधीभिरोषधीः ॥

श्रीभगवते साम्बसदाशिवाय नमः । धत्तूरफलं समर्पयामि ।


ताम्बूलम्

ॐ नमस्त आयुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥

श्रीभगवते साम्बसदाशिवाय नमः । मुखवासार्थे ताम्बूलं समर्पयामि ।


दक्षिणा द्रव्यम्

ॐ हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् । स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

श्रीभगवते साम्बसदाशिवाय नमः । दक्षिणां समर्पयामि ।


आरार्तिक्यम्

ॐ आ रात्रि पार्थिव० रजः पितुरप्रायि धामभिः । दिवः सदा० सि बृहती वितिष्ठस आ त्वेषं वर्तते तमः ॥

श्रीभगवते साम्बसदाशिवाय नमः । कर्पूरनीराजनं समर्पयामि ।


मन्त्रपुष्पाञ्जलिः

ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । तेह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं श्रवणाय कुर्महे । स मे कामान्कामकामाया मह्यं कामेश्वरो वै श्रवणो ददातु ॥ कुबेराय वै श्रवणाय महाराजाय नमः ।
ॐ स्वस्ति साम्राज्य भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्य- माधिपत्यमयं समन्तपर्याय स्यात् सार्वभौमस्सार्वायुष आन्तादापरार्धात् पृथिव्यै समुद्रपर्यन्तायाऽ एकराडिति तदप्येषश्लोकोभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन् गृहे । आवीक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति सं पतत्त्रैर्द्यावाभूर्मा जनयन्देव एकः ॥

श्रीभगवते साम्बसदाशिवाय नमः । मन्त्रपुष्पाञ्जलिं समर्पयामि ।


शिवगायत्री

ॐ तत्पुरुषाय विद्महे महादेवाय धीमहि । तन्नो रुद्रः प्रचोदयात् ॥


प्रदक्षिणाम्

ॐ ये तीर्थानि प्रचरन्ति सृकाहस्ता निषङ्गिणः । तेषार्ठ० सहस्त्रयोजनेऽव धन्वनिं तन्मसि ॥
यानि कानि च पापानि जन्मान्तरकृतानि च । तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥

श्रीभगवते साम्बसदाशिवाय नमः । प्रदक्षिणां समर्पयामि ।


प्रणामः

ॐ नमः शंभवाय च मयोभवाय च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥

ॐ नमः सर्वहितार्थाय जगदाधारहेतवे । साष्टाङ्गोऽयं प्रणामस्ते प्रयत्नेन मया कृतः ॥


शिवस्तुतिः

नमः सोमाय शान्ताय सगुणायादि हेतवे ।
निवेदयामि चात्मानं त्वं गतिः परमेश्वर ॥

नमामि त्वां विरूपाक्ष नीलग्रीव नमोऽस्तु ते ।
त्रिनेत्राय नमस्तुभ्यमुमादेहार्द्धधारिणे ॥
त्रिशूलधारिणे तुभ्यं भूतानां पतये नमः ।
पिनाकिने नमस्तुभ्यं नमो मीढुष्टमाय च ॥
नमामि त्वां महाभूत पतये त्वां नमाम्यहम् ।
स्वयं भिक्षान्न भोक्ता च भक्तानां राज्यदायक ॥
सूर्यरूपं समासाद्य देहिनां देहदायक ।
यतीनां मुक्तिदस्त्वं च भूतानां चापि मुक्तिदः ॥
राजसेन स्वयं ब्रह्मा सात्विकेन स्वयं हरिः ।
तामसेन स्वयं रुद्रस्त्रितयं त्वयि संस्थितम् ॥
त्वं माता त्वं पिता त्वं हि त्वं बन्धुस्त्वं च मे सखा ।
त्वं विद्या द्रविणस्त्वं वै त्वं च सर्व मम प्रभो ॥
नमो विरञ्चि विश्वेश भेदेन परमात्मने ।
निसर्गनमो स्थितिसंहारव्यापिने परमात्मने ॥
न्यूनातिरिक्तं यत्कर्म जपहोमार्चनादिकम् ।
कृतमज्ञानतो देव तन्मम क्षन्तुमर्हसि ॥
विश्वेश्वर विरूपाक्ष विश्वरूप सदाशिव ।
शरणं भवभूतेश करुणाकरशङ्कर ॥
हरशम्भो महादेव विश्वेशामरवल्लभ ।
शिवशङ्करसर्वात्मन्नीलकण्ठ नमोऽस्तु ते ॥
मृत्युञ्जयमहारुद्र सर्वेश शशिशेखर ।
चन्द्रचूडमहादेव पार्वतीश नमोऽस्तु ते ॥
मृत्युञ्जयाय रुद्राय नीलकण्ठाय शम्भवे ।
अमृतेशाय सर्वाय महादेवाय ते नमः ॥
रुद्रहोमो जपो वापि न्यूनो वाप्यधिकोऽपि वा ।
सम्पूर्णस्त्वत्प्रसादेन भूयाद् भूतिविभूषण ॥


क्षमाप्रार्थना

आवाहनं न जानामि पूजां चोमापते प्रभो ।
क्षमस्व देवदेवेश मामङ्कीकुरु शङ्कर ॥

अपराधसहस्राणि क्रियतेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वर ॥

अपराधसहस्राणां सहस्रमयुतं तथा ।
अर्बुदं चाप्यसंख्येयं करुणाब्धे क्षमस्व मे ॥

यश्चापराधं कृतवान्नज्ञानात्पुरुषोत्तम ।
भक्तस्य मम देवेश त्वं सर्वं क्षन्तुमर्हसि ॥

अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात् कारुण्यभावेन रक्ष त्वं परमेश्वर ॥

प्रमादात् कुर्वतां कर्म प्रच्यवेताध्वरेषु यत् ।
स्मरणादेव तच्छम्भोः सम्पूर्णं स्यादिति श्रुतिः ॥

यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमीश्वरम् ॥


अर्पणम्

अनेनावाहनादिषोडशोपचारैरन्योपचारैश्च यथाज्ञानेन यथा-मिलितोपचारद्रव्यैः कृतेन पूजनाख्येन कर्मणा भगवान् श्रीसाम्बसदाशिव-देवताः प्रीयतां न मम ।

ॐ विष्णवे नमः । ॐ विष्णवे नमः । ॐ विष्णवे नमः ।

॥ इति शिवपूजनम् ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

shastrianand701@gmail.com

एक टिप्पणी भेजें (0)
3/related/default