वैदिक स्वस्तिपुण्याहवाचनम्

AnandShastri
0

वैदिक स्वस्तिपुण्याहवाचनम्

वैदिक स्वस्तिपुण्याहवाचनम् वैदिक कर्मकाण्ड का अत्यन्त महत्वपूर्ण अंग है। इसके द्वारा यजमान आचार्य एवं ब्राह्मणों से दीर्घायु, पुण्य, आरोग्य एवं ऐश्वर्य की कामना करता है।

दोनों घुटनों को पृथ्वी पर मोड़ कर कमल के तुल्य अपनी अञ्जली को सिर पर रखकर यजमान अपने दायें हाथ में स्वर्णादि के जल से पूर्ण कलश को अपने मस्तक से स्पर्श कर आचार्य सहित ब्राह्मणों से आशीर्वाद प्राप्त करने के लिये निम्न श्लोक का उच्चारण करें –


दीर्घा नागा नद्यो गिरयस्त्रीणि विष्णुपदानि च ।
तेनाऽऽयुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ॥

ब्राह्मण कहें – अस्तु दीर्घमायुः । उसके पश्चात् निम्न मन्त्र का उच्चारण करते हुए कहें –

ॐ त्रीणि पदा विचक्रमे विष्णुर्गोपा अदाभ्यः ।
अतो धर्माणि धारयन् ॥

तेनायुः प्रमाणेन पुण्यं पुण्याहं दीर्घमायुरस्तु ।

पुनः ब्राह्मण कहें – पुण्यं पुण्याहं दीर्घमायुरस्तु


यजमान ब्राह्मणों के हाथ में जल देते हुए कहें – शिवा आपः सन्तु । ब्राह्मण प्रत्युत्तर में कहें – सन्तु शिवा आपः । यजमान कहें – सौमनस्यमस्तु । ब्राह्मण कहें – अस्तु सौमनस्यम् । यजमान कहें – अक्षताः पान्तु, गन्धाः पान्तु । ब्राह्मण कहें – आयुष्यमस्तु । यजमान कहें – पुष्पाणि पान्तु । ब्राह्मण कहें – श्रीरस्तु । यजमान कहें – ताम्बूलानि पान्तु । ब्राह्मण कहें – ऐश्वर्यमस्तु । यजमान कहें – दक्षिणाः पान्तु । ब्राह्मण कहें – आरोग्यमस्तु


दीर्घमायुः शान्तिः पुष्टिस्तुष्टिः श्रीर्यशो विद्या विनयो वित्तं बहुपुत्रं बहुधनं चाऽऽयुष्यं चाऽस्तु ।

ब्राह्मण कहें १– तथाऽस्तु !

यजमान पूजनस्थल पर उपस्थित सभी ब्राह्मणों से कहें –

यं कृत्वा सर्ववेद-यज्ञक्रियाकरणकर्मारम्भाः शुभाः शोभनाः प्रवर्तन्ते तमहमोङ्कारमादिं कृत्वा, ऋग्यजुः सामाऽथर्वाऽऽशीर्वचनं बहुऋषिमतं समनुज्ञातं भवद्भिरनुज्ञातः पुण्यं पुण्याहं वाचयिष्ये ।

ब्राह्मण कहें – वाच्यताम्

व्रतजपनियम-तपः-स्वाध्याय क्रतुशमदयादानविशिष्टानां सर्वेषां ब्राह्मणानां मनः समाधीय-ताम् ।

ब्राह्मण कहें – समाहितमनसः स्मः

यजमान कहे – प्रसीदन्तु भवन्तः । ब्राह्मण कहें – प्रसन्नाः स्मः


तदुपरान्त यजमान को आचार्य घुटने मुड़वाकर भूमि पर बैठाये और कमल के समान हस्ताञ्जलि करवाकर जल से पूर्ण कलश धारण करवायें। उसके सामने दो मृत्तिकापात्र (दाहिने और बायें) स्थापित करें।

प्रथम दाहिने पात्र में जरा-जरा सा जल गिरवाते हुए कहें –

ॐ शान्तिरस्तु ॐ पुष्टिरस्तु ॐ वृद्धिरस्तु ॐ ऋद्धिरस्तु । ॐ अविघ्नमस्तु ॐ आयुष्यमस्तु ॐ आरोग्यमस्तु ॐ शिवमस्तु । ॐ शिवं कर्माऽस्तु ॐ कर्मसमृद्धिरस्तु ॐ धर्मसमृद्धिरस्तु । ॐ वेदसमृद्धिरस्तु ॐ शास्त्रसमृद्धिरस्तु ॐ धनधान्यसमृद्धिरस्तु । ॐ इष्टसम्पदस्तु ॐ अरिष्टनिरसनमस्तु ॐ यच्छ्रेयस्तदस्तु ।


आचार्य द्वितीय (बायें) पात्र में जल गिरवाते हुए कहें –

यत्पापं रोगोऽशुभमकल्याणं तत् दूरे प्रतिहतमस्तु ।
अन्तः यच्छ्रेयस्तदस्तु । उत्तरे कर्मणि निर्विघ्नमस्तु ।

पुनः दाहिने पात्र में जल गिरवाते हुए कहें –

उत्तरोत्तरे कर्मण्यविघ्नमस्तु । उत्तरोत्तरमहरहरभिवृद्धिरस्तु । उत्तरोत्तराः क्रियाः शुभाः शोभनाः सम्पद्यन्ताम् । तिथिकरण-मुहूर्त-नक्षत्र-ग्रह-लग्नाधिदेवताः प्रीयन्ताम् । तिथिकरणे-समुहूर्ते-सनक्षत्रे-सग्रहे-सलग्ने-साधिदैवते प्रीयेताम् । दुर्गा पाञ्चाल्यौ प्रीयताम् । अग्निपुरोगा विश्वेदेवाः प्रीयन्ताम् । इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् । वशिष्ठपुरोगा ऋषिगणाः प्रीयन्ताम् । माहेश्वरीपुरोगा मातरः प्रीयन्ताम् । अरुन्धतीपुरोगाः एकपल्यः प्रीयन्ताम् । विष्णुपुरोगाः सर्वे देवाः प्रीयन्ताम् । ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् । ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् । श्रीसरस्वत्यौ प्रीयेताम् । श्रद्धामेधे प्रीयेताम् । गवती कात्यायनी प्रीयताम् । माहेश्वरी प्रीयताम् । भगवती ऋद्धिकरी प्रीयताम् । भगवती वृद्धिकरी प्रीयताम् । भगवती पुष्टिकरी प्रीयताम् । भगवती तुष्टिकरी प्रीयताम् । भगवन्तौ विघ्नविनायकौ प्रीयेताम् । सर्वाः कुलदेवताः प्रीयन्ताम् । सर्वाः ग्रामदेवताः प्रीयन्ताम् । सर्वाः इष्टदेवताः प्रीयन्ताम् ।


आचार्य बायें पात्र में यजमान से निम्न वाक्योच्चारण द्वारा जल गिरवायें –

हताश्च ब्रह्मद्विषः । हताश्च परिपन्थिनः । हताश्च विघ्नकर्तारः । शत्रवः पराभवं यान्तु । शाम्यन्तु घोराणि । शाम्यन्तु पापानि । शाम्यन्त्वीतयः ।

आचार्य दाहिने पात्र में यजमान से निम्न वाक्योच्चारण द्वारा जल गिरवायें –

शुभानि वर्द्धन्ताम् । शिवा आपः सन्तु । शिवा ऋतवः सन्तु । शिवा अग्नयः सन्तु । शिवा आहुतयः सन्तु । शिवा वनस्पतयः सन्तु । शिवा अतिथयः सन्तु । अहोरात्रे शिवे स्याताम् ।

ॐ निकामे निकामे नः पर्जन्यो वर्षतु फलवत्यो न ओषधयः पच्यन्तां । योगक्षेमो नः कल्पताम् ।शुक्राङ्गावारक बुध-बृहस्पति-शनैश्चर-राहु-केतु सोमादित्य-रूपाः सर्वे ग्रहाः प्रीयन्ताम् । भगवान् नारायणः प्रीयन्ताम् । भगवान् पर्जन्यः प्रीयन्ताम् । भगवान् स्वामी महासेनः प्रीयन्ताम् ।

पुरोनुवाक्या यत्पुण्यं तदस्तु । याज्यया यत्पुण्यं तदस्तु । वषट् कारेण यत्पुण्यं तदस्तु । प्रातः सूर्योदये यत्पुण्यं तदस्तु ।


तदुपरान्त आचार्य जलपूर्ण कलश को यजमान से भूमि पर रखवा दें। प्रथम दाहिने पात्र के जल से यजमान एवं उसके परिवार का अभिषेचन करें तथा द्वितीय बायें पात्र के जल को अन्यत्र ले जाकर गिरवा दें।

यजमान निम्न श्लोक व वाक्य ब्राह्मणों से कहे –

पुण्यमहर्यच्च सृष्ट्युत्पादनकारकम् ।
वेदवृक्षोद्भवं नित्यं तत्पुण्याहं ब्रुवन्तु नः ॥

भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुकदेवता पूजनकर्मणः पुण्याहं भवन्तो ब्रुवन्तु ।

ब्राह्मण तीन बार कहें –

ॐ पुण्याहम् । ॐ पुण्याहम् । ॐ पुण्याहम् ।

ॐ पुनन्तु मा देवजनाः पुनन्तु मनसाधियः ।
पुनन्तु विश्वाभूतानि जातवेदः पुनीहि मा ॥


यजमान निम्न श्लोक व वाक्य ब्राह्मणों से कहें –

पृथिव्यमुद्धृतायां यान्तु यत्कल्याणं पुरा कृतम् ।
ऋषिभिः सिद्धगन्धर्वैस्तत्कल्याणं ब्रुवन्तु नः ॥

भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुकदेवता पूजनकर्मणः कल्याणं भवन्तो ब्रुवन्तु ।

ब्राह्मण तीन बार कहें –

ॐ कल्याणम् । ॐ कल्याणम् । ॐ कल्याणम् ।

ॐ यथेमां वाचं कल्याणीमावदानि जनेभ्यः ।
ब्रह्मराजन्याभ्यां शूद्राय चार्याय च स्वाय चारणाय च ।
प्रियो देवानां दक्षिणायै दातुरिह भूयासम् ।
अयं मे कामः समृद्धयतामुप मा दो नमतु ॥


यजमान निम्न श्लोक व वाक्य ब्राह्मणों से कहें –

सागरस्य च या लक्ष्मीर्महाक्ष्यादिभिः कृता ।
सम्पूर्णा सुप्रभावा च तामृद्धिं ब्रुवन्तु नः ॥

भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुकदेवता पूजनकर्मणः ऋद्धिं भवन्तो ब्रुवन्तु ।

ब्राह्मण प्रत्युत्तर में तीन बार कहें –

ॐ कर्म ऋध्यताम् । ॐ कर्म ऋध्यताम् । ॐ कर्म ऋध्यताम् ।

ॐ सत्रस्य ऋद्धिरस्यगन्म ज्योतिरमृता अभूम ।
दिवं पृथिव्या अध्यारुहामाविदाम देवान्स्वर्ज्योतिः ॥


यजमान निम्न श्लोक व वाक्य ब्राह्मणों से कहें –

स्वस्तिस्तु या विनाशाख्या पुण्य-कल्याण-वृद्धिदा ।
विनायकप्रिया नित्यं तां च स्वस्तिं ब्रुवन्तु नः ॥

भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुकदेवता पूजनाख्यकर्मणः स्वस्तिं भवन्तो ब्रुवन्तु ।

ब्राह्मण प्रत्युत्तर में तीन बार कहें –

ॐ आयुष्मते स्वस्ति । ॐ आयुष्मते स्वस्ति । ॐ आयुष्मते स्वस्ति ।

ॐ स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥


यजमान निम्न श्लोक व वाक्य ब्राह्मणों से कहें –

समुद्रमथनाज्जाता जगदानन्दकारिका ।
हरिप्रिया च माङ्गल्या तां श्रियं च ब्रुवन्तु नः ॥


यजमान ब्राह्मणों से कहें –

भो ब्राह्मणाः ! मम सकुटुम्बस्य सपरिवारस्य गृहे अमुकदेवता पूजनाख्यकर्मणः श्रीरस्त्विति भवन्तो ब्रुवन्तु ।

ब्राह्मण प्रत्युत्तर में तीन बार कहें –

ॐ अस्तु श्रीः । ॐ अस्तु श्रीः । ॐ अस्तु श्रीः ॥

ॐ श्रीश्च ते लक्ष्मीश्च पल्यावहोरात्रे पार्श्वे नक्षत्राणि रूपमश्विनौ व्यात्तम् ।
इष्णन्निषाणामुं म इषाण सर्वलोकं म इषाण ॥


यजमान पुनः निम्न श्लोक का उच्चारण करें –

मृकण्डसूनोरायुर्यद्ध्रुव लोमशयोस्तथा ।
आयुषा तेन संयुक्ता जीवेम शरदः शतम् ॥

ब्राह्मण कहें – शतं जीवन्तु भवन्तः

ॐ शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥


यजमान निम्न श्लोक का उच्चारण करें –

शिव-गौरी-विवाहे या या श्रीरामे नृपात्मजे ।
धनदस्य गृहे या श्रीरस्माकं साऽस्तु सद्मनि ॥

ब्राह्मण कहें – ॐ अस्तु श्रीः

ॐ मनसः काममाकूतिं वाचः सत्यमशीय ।
पशूनार्थं रूपमन्नस्य रसो यशः श्रीः श्रयतां मयि स्वाहा ॥


यजमान निम्न श्लोक का उच्चारण करें –

प्रजापतिर्लोकपालो धाता ब्रह्मा च देवराट् ।
भगवाञ्छाश्वतो नित्यं नो वै रक्षन्तु सर्वतः ॥

ब्राह्मण कहें – ॐ भगवान् प्रजापतिः प्रीयताम्

ॐ प्रजापते न त्वदेतान्यन्यो विश्वा रूपाणि परि ता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयर्थस्याम पतयो रयीणाम् ॥


यजमान निम्न श्लोक का उच्चारण करें –

आयुष्मते स्वस्तिमते यजमानाय दाशुषे ।
श्रिये दत्ताशिषः सन्तु ऋत्विग्भिर्वेदपारगैः ॥

ब्राह्मण कहें – आयुष्मते स्वस्ति

ॐ प्रति पन्थामपद्महि स्वस्तिगामनेहसम् ।
येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

shastrianand701@gmail.com

एक टिप्पणी भेजें (0)
3/related/default