pradosh vrat pooja prayog

AnandShastri
By -
0

श्री साम्बसदाशिवः शरणम्

पक्ष प्रदोष व्रत पूजा प्रयोगः

अर्थ = प्रदोषव्रतमहात्म्यमत्रैव यथावसरमग्रे स्कान्दोक्तं दर्शयिष्यते । तदनुसारं प्रदोषव्रतसम्बद्ध साम्बसदाशिवपूजा प्रकारः परिष्क्रियते । तत्रादौ प्रदोषव्रत समबन्धेन ज्ञातव्य प्रमाणवचनान्युद्ध्रियन्ते । तथाहि - इदं व्रतं प्रतिपक्षं यदा प्रदोषव्यापिनी त्रयोदशी तिथिर्भवेत् तद्दिने कार्यं भवति । स्कान्दे

त्रयोदश्यां तिथौ सायं प्रदोषः परिकीर्तितः ।
तत्र पूज्यो महादेवो नान्यो देवः फलार्थिभिः ॥

अर्थ = यतोहि - प्रदोषकाले सर्वेदेवा महादेवालयं गत्वा तं पूजयन्ति । तस्मादन्यदेवार्चनं तदानीं निषिद्धम् । तद्दिने सायं प्रदोषकाले शिवपूजनादेव सर्वे देवा स्तुष्यन्ति । तस्मात् प्रदोषे शिव पूजनमेव क्रियते नान्यदेवस्येति । चतुर्वर्गसाधनमिदं व्रतमिति स्कान्दे- ।

एतन्महाव्रतं पुण्यं प्रदोषे शिवपूजनम् ।
धर्मार्थकाममोक्षाणां यदेतत् साधनं परम् ॥

अर्थ = तत्र – प्रदोषकालमाह व्यासः - प्रदोषस्त्रिमुहुर्तः स्याद् भास्करेऽस्तंगते सति । तिथ्यादितत्त्वे क्वचिच्च अत्र घटिका दण्डद्वयरूपा दण्डत्रय रूपा वा ग्राह्या तत्प्रकारश्च स्कान्दे -

प्रदोषोऽस्तमयादूर्ध्वं घटिका द्वयमिष्यते ।
प्रदोषोऽस्तमयादूर्ध्वं घटिका त्रयमिष्यते ॥
पक्षद्वये त्रयोदश्यां निराहारो भवेत् दिवा ।
घटीत्रयादस्तमयात् पूर्वं स्नानं समाचरेत् ॥
शुक्लाम्बरधरोभूत्वा वाग्यतो नियमान्वितः ।
कृतसन्ध्याजपविधिः शिवपूजां समाचरेत् ॥

अर्थ = प्रदोषव्रतकर्ता प्रातः स्नानादिकृत्वा व्रतं सङ्कल्पयेत् अति स्कान्दे - ।

प्रदोषे शिवमभ्यर्च्य नक्तंभोक्ष्यामिशङ्कर ।
प्राचचानेन मन्त्रेण व्रतसङ्कल्पमाचरेत् ॥
ततस्तुलौहिते भानौ स्नात्वा सनियमो व्रती ।
पूजास्थानं ततो गत्वा प्रदोषे शिवमर्चयेत् ॥
एवं संवत्सरं कृत्वा त्रयोदश्यामिदं व्रतम् ।
सकामः पुरूषः कुर्यात् व्रतस्योद्यापनं ततः ॥

अर्थ = संवत्सरकालावधिकं व्रतं सकाम विषयम् , निष्कामस्तु शैवः सर्वदा प्रदोषव्रतं कुर्यादेव । अथ सन्तानादिकामनावद्भिः कार्यप्रदोषव्रतारम्भदिनं - स्कान्दे ।।

यदात्रयोदशी शुक्ला मन्दवारेण संयुता ।
आरब्धव्यं व्रतं तत्र सन्तानफलसिद्धये ॥
ऋणनिर्मोचनार्थाय भौमवारेण संयुता ।
सौभाग्य स्त्रीसमृद्ध्यर्थ शुक्रवारेण संयुता ॥
आयुरारोग्य सिद्धयर्थं भानुवारेण संयुता ।
एकवत्सरपर्यन्तं प्रतिपक्षं त्रयोदशी ॥
प्रदोषे शिवमभ्यर्च्य यथोक्तफलमाप्नुयात् ॥

अर्थ = इदं व्रतं शनिवारे प्रशस्तं सन्तानार्थिनां कृते कृष्णपक्षे शनिवारे तु अतिप्रशस्तम् - स्कान्दे - ॥

मन्दवारे प्रदोषोऽयं दुर्लभः सर्वदेहिनाम् ।
तत्रापि दुर्लभः प्रोक्तः कृष्णपक्षे समागतः ॥

अर्थ = समस्त दिवारात्रिव्यापिनी यदि त्रयोदशी स्यात् तदा सर्वोत्तमा कथिता कार्तिकादिमासेषु - स्कान्दे - ॥

कार्तिकादिषु मासेषु मन्दवारे त्रयोदशी ।
सम्पूर्णातु भवेत् या सा समग्रव्रतसिद्धये ॥
दिवारात्रिव्रतं यत्र एकमेव तिथौ स्मृतम् ।
तस्यामुभयव्यापिन्यां कुर्यादेवं व्रतं व्रती ॥

अर्थ = तस्यामहोरात्रव्रतं कार्यं न नक्तभोजनम् । तिथ्यन्ते पारणां कुर्यादित्युक्ते रिति । तदा परेद्युरेव चतुर्दश्यां पारणां कुर्यात् । तदभावे तु प्रदोष कालव्यापिनी त्रयोदशी ग्राह्या, तदा प्रदोषे शिवं सम्पूज्य नक्तं चतुर्दश्यां पारणां विदध्यात् , तिथ्यन्ते पारणामित्युक्तेः । तथाहि कौर्मे - ॥

प्रदोषव्यापिनी यत्र त्रिमुहूर्ता दिवा यदि ।
तदा नक्तव्रतं कुर्यात् स्वाध्यायस्य निषेधवत् ॥

अर्थ = प्रदोष व्यापित्वं स्कान्दे ।।

जया पूर्वा परा ग्राह्या प्राप्ता चेन्द्रजनीमुखम् ॥

अर्थ = व्यासोऽप्याह - ॥

प्रदोषव्यापिनी ग्राह्या सदा नक्तव्रते तिथिः ।
एकादशीं विना सर्वाः शुक्ले कृष्णेऽपि वा समाः ॥

अर्थ = वत्सोऽपि -

प्रदोषव्यापिनी ग्राह्या सदा नक्तव्रते तिथिः ॥

अर्थ = यदि दिनद्वयेऽपि त्रयोदशी प्रदोषव्यापिनी स्यात् तदा परैव ग्राह्या न पूर्वेति जाबालिः

यदि स्यादुभयोरह्नोः प्रदोषव्यापिनी तिथिः ।
तत्रोत्तरत्र नक्तं स्यादुभयत्रापि सा यतः ॥

अर्थ = अतः प्रदोषव्यापिन्यां प्रदोषकालिकशिवपूजनानन्तरं व्रतपारणं कर्तव्यम्- ‘नक्तं भोक्ष्यामि शङ्करे’ति पूर्वप्रतिज्ञातत्त्वात् । तत्र तिथ्यन्ते च पारणम्, उत्सवान्ते च पारणमिति वचनद्वयप्रमाणेन यथावसरं प्रदोषे शिवं सम्पूज्य पारणं कुर्वन्तो जना दृश्यन्ते । प्रदोषव्रते त्रीणि कार्याणि विहितानि- १. दिवा निराहारत्वेनावस्थानम्, २. प्रदोष काले शिवपूजनम्, ३. नक्तभोजनञ्चेति । दिनद्वयेऽपि त्रयोदश्याः प्रदोषव्याप्त्यभावे परदिने एव व्रतंग्राह्यम् । दिवा निराहारः सन् प्रदोषे शिवपूजनानन्तरं पारणं कर्तव्यम् ।

अर्थ = पारणायां सन्ध्याकालो वर्ण्य इति मार्कण्डेयः प्राह-

चत्वारीमानि कर्माणि सन्ध्याकाले विवर्जयेत् ।
आहारं मैथुनं निद्रां स्वाध्यायञ्च चतुर्थकम् ॥

अर्थ = सन्ध्याकालमाह याज्ञवल्क्यः-

अहोरात्रस्य यः सन्धिः सूर्यनक्षत्रवर्जितः ।
सा तु सन्ध्या समाख्याता ऋषिभिस्तत्त्वदर्शिभिः ॥

अर्थ = स्मृत्यन्तरेऽपि तथा-

नक्षत्रदर्शनात् सन्ध्या सायं तत्परतः स्थितम् ।
तत्परा रजनी प्रोक्ता तत्र धर्मान् विवर्जयेत् ॥

अर्थ = इति संक्षेपतः प्रदोषकालादि निर्णयः । हेमाद्री - प्रथमप्रहर एव प्रदोषः-

त्रयोदश्यां तथा रात्रौ सोपहारंत्रिलोचनम् ।
दृष्ट्वेशं प्रथमे यामे मुच्यते सर्वपातकैः ॥

अर्थ = द्विजातिभिः शिवलिङ्गार्चनं कर्तव्यम् - पाद्मे यो न पूजयते लिंङ्गं ब्रह्मादीनां प्रकाशकम्। शास्त्रवित् सर्ववेत्तापि चतुर्वेदः पशुस्तु सः ॥

मन्त्रमहोदधौ- यो नित्यं पूजयेल्लिङ्गं शिवभक्तिपरायणः । मेरुतुल्योऽपि तस्याशु पापराशिः क्षयं व्रजेत्॥

लिङ्गपदेन भगवान् शिव एव कथ्यते- लीनं प्रलीनं विश्वं गमयत्याविर्भावयति सृष्टि काले। सृष्टं जगत् यत्र लीयते प्रलयकाले लूता तन्तुरिव लूतायाम् । लिङ्गयते ज्ञायते परतत्त्वं मुमुक्षुभिर्येनेति तल्लिङ्गं महादेवः शिव एव ।

स्कान्दे- भारते-

पूजितं येन वै लिङ्गं पूजिताः सर्वदेवताः ।
सम्पूर्णं पूजितं तेन त्रैलोक्यं सचराचरम्॥
पुंलिङ्गं सर्वमीशानं स्त्रीलिङ्गं विद्धिचाप्युमाम् ।
द्वाभ्यां तनुभ्यां व्याप्तं हि चराचरमिदं जगत् ॥

अर्थ = कलौ शिवपूजैव श्रेयस्करी - स्कान्दे

ब्रह्मा कृतयुगे पूज्यः त्रेतायां भगवान् रविः ।
द्वापरे भगवान् विष्णुः कलौ देवो महेश्वरः ॥

© 2025 वेद स्तोत्र संग्रह

एक टिप्पणी भेजें

0 टिप्पणियाँ

shastrianand701@gmail.com

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!