षोडशोपचार पूजन मंत्र विधि,

AnandShastri
By -
0
षोडशोपचार परिचय
अर्थ —
षोडशोपचार का भारतीय वैदिक वाङ्मय में बड़ा ही महत्त्व माना गया है। किसी भी देवी-देवताओं के पूजन में इसे विशेष रूप से महत्त्व प्रदान किया जाता है। पूजन की अनेकानेक विधियों में से षोडशोपचार पूजन विधि भी एक है। षोडश का अर्थ है सोलह, अर्थात् वे सोलह तरीके जिनसे देवी-देवताओं का पूजन-यजन किया जाता है।

देव पूजन की प्रविधि सामान्यतया अतिथि सत्कार की पुरातन परंपरा के समान है। इसके अंतर्गत हम भगवान का आवाहन कर विभिन्न सामग्री से उनकी सेवा-सत्कार की भावना से पूजन करते हैं।

पूजन विधि के लिए कोई एक समान प्रक्रिया निर्धारित नहीं की जा सकती, क्योंकि प्रत्येक अवसर एवं देवी-देवताओं के अनुसार प्रक्रिया परिवर्तित होती रहती है। भक्ति का विधान भी देश, काल, परिस्थिति और परम्पराओं के अनुसार भिन्न-भिन्न है। फिर भी जनसामान्य के पूजन-अर्चन हेतु एक सामान्य रूपरेखा निर्धारित की जा सकती है।

दैनिक पूजा को छोड़कर प्रत्येक पूजारंभ से पूर्व आत्मशुद्धि, आसन शुद्धि, पवित्री धारण, पृथ्वी पूजन, संकल्प, दीप पूजन, शंख पूजन, घंटा पूजन, स्वस्तिवाचन आदि अवश्य करने चाहिए। भूमि, वस्त्र और आसन स्वच्छ एवं शुद्ध हों। यजमान पूर्वाभिमुख और पुरोहित उत्तराभिमुख होकर बैठें।

षोडशोपचार के सोलह प्रकार
१. आवाहन, २. आसन, ३. पाद्य, ४. अघ्य, ५. आचमन, ६. स्नान,
७. वस्त्र, ८. उपवस्त्र अथवा यज्ञोपवीत, ९. गंध (चंदन),
१०. पुष्प अर्पण, ११. धूप, १२. दीप-आरती,
१३. नैवेद्य, १४. नमस्कार, १५. परिक्रमा, १६. मंत्रपुष्पांजलि

षोडशोपचार पूजन विधि
गणेशाम्बिका पूजन
आचमन —
आत्मशुद्धि के लिए तीन बार आचमन करें— ॐ केशवाय नमः, ॐ नारायणाय नमः, ॐ माधवाय नमः । इसके पश्चात हाथ धो लें। ॐ हृषीकेशाय नमः ॥ पुनः बायें हाथ में जल लेकर दाहिने हाथ से अपने ऊपर और पूजा सामग्री पर जल छिड़कें।
ॐ अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

पुण्डरीकाक्षः पुनातु । पुण्डरीकाक्षः पुनातु । पुण्डरीकाक्षः पुनातु ।

आसन शुद्धि
ॐ पृथ्वि! त्वया धृता लोका देवि! त्वं विष्णुना धृता ।
त्वं च धारय मां देवि! पवित्रां कुरु चासनम् ॥

शिखाबन्धन
ॐ मानस्तोके तनये मानऽआयुषि मानो गोषु मानोऽश्वेषुरीरिषः ।
मानो व्वीरान् रुद्रभामिनो व्वधीर्हविष्मन्तः सदमित्त्वा हवामहे ॥

ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते ।
तिष्ठ देवि शिखाबद्धे तेजोवृद्धिं कुरुष्व मे ॥

कुश धारण
ॐ पवित्रोस्थो वैष्णव्यौ सवितुर्व्वः प्रसवऽउत्पुनाम्यच्छिद्रेण पवित्रोण सूर्यस्य रश्मिभिः ।
तस्य ते पवित्रपते पवित्रपूतस्य यत्कामः पुनेतच्छकेयम् ॥

पुनः दाहिने हाथ को पृथ्वी पर रखकर “ॐ पृथिव्यै नमः” से भूमि की पञ्चोपचार पूजा करें।

यजमान तिलक
ॐ आदित्या वसवो रुद्रा विश्वेदेवा मरुद्गणाः ।
तिलकान्ते प्रयच्छन्तु धर्मकामार्थसिद्धये ॥

स्वस्तिवाचन
ॐ आ नो भद्राः क्रतवो यन्तु विश्वतोऽदब्धासो अपरितासउद्भिदः ।
देवा नो यथा सदमिद् वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे ॥

देवानां भद्रा सुमतिर्ऋजूयतां देवाना ग्वँग् रातिरभि नो निवर्तताम् ।
देवाना ग्वँग् सख्यमुपसेदिमा वयं देवा न आयुः प्रतिरन्तुजीवसे ॥

तान् पूर्वया निविदाहूमहे वयं भगं मित्रमदितिं दक्षमस्रिधम् ।
अर्यमणं वरुण ग्वँग् सोममश्विना शृणुतंधिष्ण्या युवम् ॥

तमीशानं जगतस्तस्थुषस्पतिं धियञ्जिन्वमसे हूसहे वयम् ।
पूषा नो यथा वेदसामसद् वृधे रक्षिता पायुरदब्धः स्वस्तये ॥

स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्वेवेदाः ।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥

पृषदश्वा मरुतः : पृश्निमातरः शुभं यावानो विदथेषु जग्मयः ।
अग्निजिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसागमन्निह ॥

भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरै रङ्गैस्तुष्टुवा ग्वँग् सस्तनू भिर्व्यशेमहि देवहितं यदायुः।

शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम् ।
पुत्रासो यत्र पितरो भवन्ति मा नो मध्या रीरिषतायुर्गन्तोः ॥

अदितिद्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्चजना अदितिर्जातमदितिर्जनित्वम् ॥

द्यौः शान्तिरन्तरिक्ष ग्वँग् शान्तिः पृथिवी शान्तिरापः शान्तिरोषधयः शान्तिः ।
वनस्पतयः शान्तिर्विश्वे देवाः शान्तिर्ब्रह्म शान्तिः सर्व ग्वँग् शान्तिः ।
शान्तिरेव शान्तिः सा मा शान्तिरेधि ॥

यतो यतः समीहसे ततो नो अभयं कुरु ।
शन्नः कुरु प्रजाभ्योऽभयं नः पशुभ्यः ॥

ॐ विश्वानि देव सवितर्दुरितानि परा सुव यद् भद्रं तन्न आ सुव ॥

हाथ में लिए पुष्प और अक्षत गणेश एवं गौरी पर चढ़ा दें।
पुनः हाथ में पुष्प अक्षत आदि लेकर मंगल श्लोक पढ़े।
आवाहन करें ।

श्रीमन्महागणाधिपतये नमः । लक्ष्मीनारायणाभ्यां नमः ।
उमामहेश्वराभ्यां नमः । वाणीहिरण्यगर्भाभ्यां नमः ।
शचीपुरन्दराभ्यां नमः । मातापितृचरणकमलेभ्यो नमः ।
इष्टदेवताभ्यो नमः । कुलदेवताभ्योनमः ।
ग्रामदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः ।
स्थानदेवताभ्यो नमः । सर्वेभ्यो देवेभ्यो नमः ।
सर्वेभ्यो ब्राह्मणेभ्यो नमः ।
मङ्गलपाठ

विश्वेशं माधवं ढुण्ढिं दण्डपाणिं च भैरवम् ।
वन्दे काशीं गुहां गङ्गां भवानीं मणिकर्णिकाम् ॥1॥

वक्रतुण्ड ! महाकाय ! कोटिसूर्यसमप्रभ ।
निर्विघ्नं कुरु मे देव ! सर्वकार्येषु सर्वदा ॥2॥

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ॥3॥

धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
द्वादशैतानि नामानि यः पठेच्छृणुयादपि ॥4॥

विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ।
सङ्ग्रामे सङ्कटे चैव विघ्नस्तस्य न जायते ॥5॥

शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥6॥

अभीप्सितार्थ-सिद्धार्थं पूजितो यः सुरासुरैः ।
सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥7॥

सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।
शरण्ये त्रयम्बके गौरि नारायणि नमोऽस्तु ते ॥8॥

सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम् ।
येषां हृदिस्थो भगवान् मङ्गलायतनो हरिः ॥9॥

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव ।
विद्यावलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि ॥10॥

लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः ।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दनः ॥11॥

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः ।
तत्र श्रीर्विजयो भूतिध्रुवा नीतिर्मतिर्मम ॥12॥

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते ।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥13॥

स्मृतेः सकलकल्याणं भाजनं यत्र जायते ।
पुरुषं तमजं नित्यं ब्रजामि शरणं हरिम् ॥14॥

सर्वेष्वारम्भकार्येषु त्रयस्त्रिभुवनेश्वराः ।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दनाः ॥15॥

हाथ में लिये अक्षत पुष्प को गणेशाम्बिका पर चढ़ा दें।
संकल्प—

दाहिने हाथ में जल, अक्षत, पुष्प और द्रव्य लेकर संकल्प करें।

ॐ विष्णुर्विष्णुर्विष्णुः ॐ स्वस्ति श्रीमन्मुकन्दसच्चिदानन्दस्याज्ञया प्रवर्तमानस्याद्य ब्रह्मणो द्वितीये परार्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे द्वात्रिंशत्कल्पानां मध्ये अष्ट श्रीश्वेतवाराहकल्पे स्वायम्भुवादिमन्वतराणां मध्ये सप्तमे वैवस्वतमन्वन्तरे कृत-त्रेता-द्वापर-कलिसंज्ञानां चतुर्युगानां मध्ये वर्तमाने अष्टाविंशतितमे कलियुगे तत्प्रथमचरणे तथा पञ्चाशत्कोटियोजनविस्तीर्ण भूमण्डलान्तर्गत सप्तद्वीपमध्यवर्तिनि जम्बूद्वीपे तत्रापि श्रीगङ्गादिसरिद्भिः पाविते परमपवित्रे भारतवर्षे आर्यावर्तान्तर्गत काशी-कुरुक्षेत्र-पुष्कर-प्रयागादि-नानातीर्थयुक्त कर्मभूमौ मध्यरेखाया मध्ये अमुक दिग्भागे अमुक क्षेत्रे ब्रह्मावर्तादमुकदिग्भागावस्थितेऽमुकजनपदे तज्जनपदान्तर्गते अमुकग्रा श्रीगङ्गायमुनयोरमुकदिग्भागे श्रीनर्मदाया अमुकप्रदेशे देवब्राह्माणानां सन्निधौ श्रीमन्नृपतिवीरविक्रमादित्यसमयतोऽमुक प्रवर्तमानवत्सरे प्रभवादिषष्ठिसम्वत्सराणां मध्ये अमुकनाम सम्वत्सरे, अमुकायने, अमुकगोले, अमुकऋतौ, अमुकमासे, अमुकपक्षे, संख्या परिमिते अमुकतिथौ, अमुकवासरे, यथांशकलग्नमुहूर्तनक्षत्रायोगकरणान्विते अमुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते चन्द्रे, अमुकराशिस्थे देवगुरौ, शेषेषु ग्रहेषु यथायथाराशिस्थानस्थितेषु सत्सु सत्सु एवं ग्रहगुणविशिष्टेऽस्मिन्शुभक्षणे अमुकगोत्रोऽमुकशर्म्मा वर्मा-गुप्त-दास सपत्नीकोऽहं श्री अमुकदेवताप्रीत्यर्थम् अमुककामनया ब्रह्मणद्वारा कृतस्यामुकमन्त्रपुरश्चरणस्य सङ्गतासिद्धार्थं ममुकसंख्यया परिमित जपदशांश-होम-तद्दशांशतर्पण- तद्दशांश-ब्राह्मणभोजनरूपं कर्म करिष्ये ।

अथवा

ममात्मनः श्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं सकुटुम्बस्य सपरिवारस्य द्विपदचतुष्पदसहितस्य सर्वारिष्टनिरसनार्थं सर्वदा शुभफलप्राप्तिमनोभिलषितसिद्धिपूर्वकम् अमुकदेवताप्रीत्यर्थं होमकर्माहं करिष्ये ।

अक्षत सहित जल भूमि पर छोड़ें। पुनः जल आदि लेकर—

तदङ्गत्वेन निर्विघ्नतासिद्धार्थं श्रीगणपत्यादिपूजनम् आचार्यादिवरणञ्च करिष्ये। तत्रादौ दीपशंखघण्टाद्यर्चनं च करिष्ये ।

जलपात्र (कर्मपात्र) का पूजन—

इसके बाद कर्मपात्र में थोड़ा गंगाजल छोड़कर गन्धाक्षत, पुष्प से पूजा कर प्रार्थना करें।

ॐ गङ्गे च यमुने चैव गोदावरि ! सरस्वति! ।
नर्मदे! सिन्धु कावेरि! जलेऽस्मिन् सन्निधिं कुरु ॥

अस्मिन् कलशे सर्वाणि तीर्थान्यावाहयामि नमस्करोमि।

कर्मपात्र का पूजन करके उसके जल से सभी पूजा वस्तुओं पर छिड़कें।
घृतदीप-(ज्योति) पूजन—

“वह्निदैवतायै दीपपात्राय नमः” से पात्र की पूजा कर ईशान दिशा में घी का दीपक जलाकर अक्षत के ऊपर रखें।

ॐ अग्निर्ज्योतिज्ज्योतिरग्निः स्वाहा,
सूर्यो ज्ज्योतिज्ज्योतिः सूर्यः स्वाहा ।
अग्निर्व्वच ज्ज्योतिर्व्वर्चः स्वाहा,
सूर्योव्वर्चोज्ज्योतिर्व्वर्चः स्वाहा ॥
ज्योतिः सूर्य्यः सूर्य्यो ज्ज्योतिः स्वाहा ॥

भो दीप देवरूपस्त्वं कर्मसाक्षी ह्यविघ्नकृत् ।
यावत्पूजासमाप्तिः स्यात् तावदत्र स्थिरो भव ॥

ॐ भूर्भुवः स्वः दीपस्थदेवतायै नमः आवाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि नमस्करोमि।

शंखपूजन—

शंख को चन्दन से लेपकर देवता के बायीं ओर पुष्प पर रखकर शंख मुद्रा करें।

ॐ शंखं चन्द्रार्कदैवत्यं वरुणं चाधिदैवतम् ।
पृष्ठे प्रजापतिं विद्यादग्रे गङ्गासरस्वती ॥

त्रैलोक्ये यानि तीर्थानि वासुदेवस्य चाज्ञया ।
शंखे तिष्ठन्ति वै नित्यं तस्माच्छंखं प्रपूजयेत् ॥

त्वं पुरा सागरोत्पन्नो विष्णुना विधृतः करे ।
नमितः सर्वदेवैश्च पाञ्जन्य! नमोऽस्तुते ॥

पाञ्चजन्याय विद्महे पावमानाय धीमहि तन्नः शंखः प्रचोदयात् ।

ॐ भूर्भुवः स्वः शंखस्थदेवतायै नमः शंखस्थदेवतामावाहयामि सर्वोपचारार्थे गन्धपुष्पाणि समर्पयामि नमस्करोमि।

घण्टा पूजन—

ॐ सर्ववाद्यमयीघण्टायै नमः ।

आगमार्थन्तु देवानां गमनार्थन्तु रक्षसाम् ।
कुरु घण्टे वरं नादं देवतास्थानसन्निधौ ॥

ॐ भूर्भुवः स्वः घण्टास्थाय गरुडाय नमः गरुडमावाहयामि सर्वोपचारार्थे गन्धाक्षतपुष्पाणि समर्पयामि।

गरुडमुद्रा दिखाकर घण्टा बजाएँ। दीपक के दाहिनी ओर स्थापित करें।

धूपपात्र की पूजा—

ॐ गन्धर्वदैवत्याय धूपपात्राय नमः । इस प्रकार धूपपात्र की पूजा कर स्थापना करें।
गणेश–गौरी पूजन—

हाथ में अक्षत लेकर भगवान् गणेश का ध्यान करें—

गणेश का ध्यान—

ॐ गणानां त्वा गणपति ग्वँग् हवामहे प्रियाणां त्वा प्रियपति ग्वंग् हवामहे ।
निधीनां त्वा निधीपति ग्वंगू हवामहे वसो मम ।
आहमजानि गर्भधमा त्वमजासि गर्भधम् ॥

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारुभक्षणम् ।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपङ्कजम् ॥

गौरी का ध्यान—

ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वकः सुभद्रिकां काम्पीलवासिनीम् ॥

नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम् ॥

प्रतिष्ठा—

ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं
यज्ञं ग्वँग् समिमं दधातु । विश्वे देवास इह मादयन्तामो प्रतिष्ठ ॥

अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥

गणेशाम्बिके ! सुप्रतिष्ठिते वरदे भवेताम्।
प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नमः।

आसन के लिए पुष्प समर्पित करें।

ॐ रम्यं सुशोभनं दिव्यं सर्वसौख्यकरं शुभम् ।
आसनञ्च मया दत्त गृहाण परमेश्वर ।
आसनं समर्पयामि ॥

आचमनी से चरणों को धोने के लिए जल समर्पित करें।

ॐ उष्णोदकं निर्मलञ्च सर्वसौगन्ध्य संयुतम् ।
पादप्रक्षालनार्थाय दत्तं ते प्रतिगृह्यताम् ।
पाद्यं समर्पयामि ॥

गन्ध-पुष्प-अक्षत युत जल तीन बार समर्पित करें।

ॐ अर्घ्यं गृहाण देवेश गन्धपुष्पाक्षतैः सह ।
करुणां कुरु मे देव गृहाणायं नमोऽस्तुते ॥

आचमनीयम्—

आचमनी से आचमन हेतु जल समर्पित करें।

ॐ सर्वतीर्थसमायुक्तं सुगन्धिनिर्मलं जलम् ।
आचम्यतां मया दत्तं गृहाण परमेश्वर ।
आचमनीयं समर्पयामि ॥

देवता के आगमन पर उन्हें विराजमान मानकर प्रिय पत्र-पुष्प अथवा अक्षत अर्पित करें। देवता को ताम्रपात्र में रखकर चरणों पर जल अर्पित करें।

पाद्य, अर्घ्य, आचमनीय, स्नानीय एवं पुनराचमनीय हेतु जल अर्पण करें—

ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
एतानि पाद्यार्ध्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि गणेशाम्बिकाभ्यां नमः ॥

दुग्धस्नान—

ॐ पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धाः पयस्वतीः ।
प्रदिशः सन्तु मह्यम् ॥

कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम् ॥

ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः,
पयः स्नानं समर्पयामि ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

shastrianand701@gmail.com

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!