वैदिक सम्पूर्ण स्वस्तिवाचन ,

AnandShastri
By -
0

वैदिक स्वस्तिवाचन पाठ

ॐ आनोभद्रा: क्रतवो यन्तु विस्वतो दब्धासो अपरीतास उद्भिद:।
देवानो यथा सदमिद वृधे असन्नप्रायुवो रक्षितारो दिवे दिवे॥
देवानां भद्रा सुमतिर्रिजुयताम देवाना ग्वंग रातिरभि नो निवार्ताताम।
देवानां ग्वंग सख्यमुपसेदिमा वयम देवान आयु: प्रतिरन्तु जीवसे॥
तान पूर्वया निविदा हूमहे वयम भगं मित्र मदितिम दक्षमस्रिधम।
अर्यमणं वरुण ग्वंग सोममस्विना सरस्वती न: सुभगा मयस्करत॥
तन्नोवातो मयोभूवातु भेषजं तन्नमाता पृथिवी तत्पिता द्यौ:।
तद्ग्रावान: सोमसुतो मयोभूवस्तदस्विना श्रुनुतं धिष्ण्या युवं॥
तमीशानं जगतस्तस्थुखसपतिं धियंजिन्वमवसे हूमहे वयम।
पूषा नो यथा वेद सामसद वृधे रक्षिता पायुरदब्ध: स्वस्तये॥
स्वस्ति न इन्द्रो वृद्ध श्रवा: स्वस्ति न पूषा विस्ववेदा:।
स्वस्ति नस्तार्क्ष्यो अरिष्टनेमि: स्वस्ति नो वृहस्पति दधातु॥
पृषदश्वा मरुत: प्रिश्निमातर: शुभं यावानो विदथेषु जग्मय:।
अग्निजिह्वा मनव: सूरचक्षसो विश्वे नो देवा अवसागमन्निह॥
भद्रं कर्णेभि: शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवा ग्वंग सस्तनूभिर्व्यशेमहि देवहितं यदायु:॥
शतमिन्नु शरदो अन्ति देवा यत्रा नश्चक्रा जरसं तनूनाम्।
पुत्रासो यत्र पितरो भवन्ति मानो मध्या रीरिषतायुर्गन्तो:॥
अदितिर्द्यौरदितिरन्तरिक्ष्मदितिर्माता स पिता स पुत्र:।
विश्वेदेवा अदिति: पञ्चजना अदितिर्जातमदितिर्जनित्वम्॥

शान्ति पाठ

द्यौ: शान्तिरन्तरिक्ष् ग्वंग शान्ति: पृथिवी शान्ति राप: शान्ति रोषधय: शान्ति:।
वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति: सर्व ग्वंग शान्ति: शान्तिरेव शान्ति: सामा शान्तिरेधि॥

सुशान्तिर्भवतु।

श्री मन्महागणाधिपतये नमः। लक्ष्मीनारायणाभ्यां नम:। उमामहेश्वराभ्यां नम:।
वाणीहिरण्यगर्भाभ्यां नम:। शचिपुरन्दराभ्यां नम:। इष्टदेवताभ्यो नम:।
कुलदेवताभ्यो नम:। ग्रामदेवताभ्यो नम:। वास्तुदेवताभ्यो नम:।
स्थानदेवताभ्यो नम:। सर्वेभ्यो देवेभ्यो नम:। सर्वेभ्यो ब्राह्मणेभ्यो नम:।
ॐ सिद्धिबुद्धिसहिताय श्री मन्महागणाधिपतये नम:।

मङ्गलपाठ

सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः।
लम्बोदरश्च विकटो विघ्ननाशो विनायक:॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजानन:।
द्वद्शैतानि नामानि यः पठे च्छ्रिणुयादपी॥
विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा।
संग्रामे संकटे चैव विघ्नस्तस्य न जायते॥
शुक्लाम्बरधरं देवं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्व्विघ्नोपशान्तये॥
अभिप्सितार्थ सिद्ध्यर्थं पूजितो य: सुरासुरै:।
सर्वविघ्नहरस्तस्मै गणाधिपतये नम:॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके।
शरण्ये त्र्यम्बिके गौरी नारायणि नमोस्तुते॥
सर्वदा सर्वकार्येषु नास्ति तेषाममङ्गलम्।
येषां हृदयस्थो भगवान् मङ्गलायतनो हरि:॥
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेन्घ्रियुगं स्मरामि॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजय:।
येषामिन्दीवरश्यामो हृदयस्थो जनार्दन:॥
यत्र योगेश्वर: कृष्णो यत्र पार्थो धनुर्धर:।
तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम॥
अनन्यास्चिन्तयन्तो मां ये जना: पर्युपासते।
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्॥
स्मृतेः सकल कल्याणं भाजनं यत्र जायते।
पुरुषं तमजं नित्यं व्रजामि शरणं हरम्॥
सर्वेष्वारंभ कार्येषु त्रय: स्त्री भुवनेश्वरा:।
देवा दिशन्तु नः सिद्धिं ब्रह्मेशानजनार्दना:॥
विश्वेशम् माधवं दुन्धिं दण्डपाणिं च भैरवम्।
वन्दे काशी गुहां गंगा भवानीं मणिकर्णिकाम्॥
वक्रतुण्ड महाकाय सूर्य कोटि समप्रभ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
ॐ श्री गणेशाम्बिका भ्यां नम:।

एक टिप्पणी भेजें

0 टिप्पणियाँ

shastrianand701@gmail.com

एक टिप्पणी भेजें (0)

#buttons=(Ok, Go it!) #days=(20)

Our website uses cookies to enhance your experience. Check Out
Ok, Go it!