श्री गणेश पूजन विधि सम्पूर्ण
॥ मङ्गलाचरण ॥
मङ्गलम् भगवान् विष्णु मङ्गलम् गरुडध्वजः।मङ्गलम् पुण्डरीकाक्षो मङ्गलायतनो हरिः ॥
मङ्गला भगवती देवी मङ्गला सिंघवाहिनी।
मङ्गला च जगद्धात्री मङ्गलायै नमो नमः ॥
मङ्गलम् कौशलेंद्राय महनीय गुणाब्धये।
चक्रवर्ती तनूजाय सार्वभौमाय मङ्गलम् ॥
मङ्गलम् लक्ष्मण भ्राता मङ्गलम् जानकीश्वरः।
मङ्गलम् शुभदो रामः मङ्गलम् हनुमत्प्रियः ॥
मङ्गलम् परमानन्दो मङ्गलम् परमेश्वरः।
मङ्गलम् श्री पद्मनाभो मङ्गलम् पद्मलोचनः ॥
मङ्गलम् करुणासिन्धुः मङ्गलम् विश्वपालकः।
मङ्गलम् सच्चिदानन्दो मङ्गलम् जगदीश्वरः ॥
मङ्गलम् श्रीरङ्गनाथो मङ्गलम् पुरुषोत्तमः।
मङ्गलम् कमलाकान्तो मङ्गलम् भक्तवत्सलः ॥
पवित्रकरणम्
ॐ अपवित्रः पवित्रो वा सर्वावस्थाङ्गतोऽपि वा ।यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यान्तरः शुचिः ॥
त्रिराचमनम्
ॐ केशवाय नमः ! ॐ नारायणाय नमः ! ॐ माधवाय नमः ! ॥ॐ रामाय नमः ! ॐ रामचन्द्राय नमः ! ॐ रामभद्राय नमः ! ॥
आसनशुद्धिः
ॐ पृथ्वीति मन्त्रस्य मेरूपृष्ठ ऋषिः सुतलं छन्दः कूर्मो देवता आसने विनियोगः ॥ॐ पृथ्वी त्वया घृता लोका देवि त्वं विष्णुना घृता !
त्वं च धारय मां देवि पवित्रं कुरू चासनम् ॥
पवित्रीधारणम्
ॐ पवित्रेस्थो व्वैष्णव्यौ सवितुर्वः प्प्रसऽव ! उत्पुनाम्यछिद्रेण पवित्रेण सूर्य्यस्य रश्मिभिः !!तस्य ते पवित्रपते पवित्रपूतस्य यत् कामः पुने तच्छकेयम् ॥
शिखाबन्धनम्
ॐ चिद्रूपिणि महामाये दिव्यतेजः समन्विते !तिष्ठ देवि शिखा मध्ये तेजोवृद्धि कुरूष्व में ।
ग्रन्थिबन्धनम्
ॐ यदाबन्धनन्दाक्षायणा हिरण्य गुं शतानीकाय सुमनस्य मांतन्नऽआबध्नामि शत् शारदाया युष्मान् जर दृष्टिर्यथा स ।
प्राणायामः
ॐ नमः शम्भवाय च मयोभवाय च नमः शङ्कराय च !मयस्कराय च नमः शिवाय च शिवतराय च ।
दिग् रक्षणम्
ॐ अपक्रामन्तु ते भूता ये भूता भूमिसंस्थिताः !!ये भूता विघ्नकर्तारस्ते नश्यन्तु शिवाज्ञया !
अपक्रामन्तु भूतानां पिशाचाः सर्वतो दिशः !
सर्वेषामविरोधेन् पूजाकर्म समारभेत् ॥
पूर्वे रक्षतु वाराह आग्नेय्यां गरूडध्वजः
दक्षिणे पद्मनाभस्तु नैऋृत्यां मधुसूदनः !
पश्चिमे पातु गोविन्दो वायव्यां तु जनार्दनः
उत्तरे श्रीपति रक्षेदेशान्यां तु महेश्वरः !
ऊर्ध्वं गोवर्धनो रक्षेद् ह्यघ्नो नन्तस्तथैव च !
एवं दश दिशो रक्षेद् वासुदेवो जनार्दनः ॥

shastrianand701@gmail.com